द्वे वाव दे॑वस॒त्रे द्वा॑दशा॒हश्चै॒व त्र॑यस्त्रिꣳशद॒हश्च॒ य ए॒वं ॅवि॒द्वाꣳस॑स्त्रयस्त्रिꣳशद॒हमास॑ते सा॒क्षादे॒व दे॒वता॑ अ॒भ्यारो॑हन्ति॒ यथा॒ खलु॒ वै श्रेया॑न॒भ्यारू॑ढः का॒मय॑ते॒ तथा॑ करोति॒ यद्य॑व॒विद्ध्य॑ति॒ पापी॑यान् भवति॒ यदि॒ नाव॒विद्ध्य॑ति स॒दृङ् य ए॒वं ॅवि॒द्वाꣳस॑स्त्रयस्त्रिꣳ- शद॒हमास॑ते॒ वि पा॒प्मना॒ भ्रातृ॑व्ये॒णाऽऽ* व॑र्तन्ते ऽह॒र्भाजो॒ वा ए॒ता दे॒वा अग्र॒ आऽह॑र॒ - [ ]
पदपाठः (Word-by-word)
द्वे इति॑ । वाव । दे॒व॒स॒त्रे इति॑ देव - स॒त्रे । द्वा॒द॒शा॒ह इति॑ द्वादश-अ॒हः । च॒ । ए॒व । त्र॒य॒स्त्रिꣳ॒॒श॒द॒ह इति॑ त्रयस्त्रिꣳशत्-अ॒हः । च॒ । ये । ए॒वम् । वि॒द्वाꣳसः॑ । त्र॒य॒स्त्रिꣳ॒॒श॒द॒हमिति॑ त्रयस्त्रिꣳशत्-अ॒हम् । आस॑ते । सा॒क्षादिति॑ स - आ॒क्षात् । ए॒व । दे॒वताः᳚ । अ॒भ्यारो॑ह॒न्तीत्य॑भि - आरो॑हन्ति । यथा᳚ । खलु॑ । वै । श्रेयान्॑ । अ॒भ्यारू॑ढ॒ इत्य॑भि - आरू॑ढः । का॒मय॑ते । तथा᳚ । क॒रो॒ति॒ । यदि॑ । अ॒व॒विद्ध्य॒तीत्य॑व - विद्ध्य॑ति । पापी॑यान् । भ॒व॒ति॒ । यदि॑ । न । अ॒व॒विद्ध्य॒तीत्य॑व - विद्ध्य॑ति । स॒दृङ्ङिति॑ स - दृङ् । ये । ए॒वम् । वि॒द्वाꣳसः॑ । त्र॒य॒स्त्रिꣳ॒॒श॒द॒हमिति॑ त्रयस्त्रिꣳशत् - अ॒हम् । आस॑ते । वीति॑ । पा॒प्मना᳚ । भ्रातृ॑व्येण । एति॑ । व॒र्त॒न्ते॒ । अ॒ह॒र्भाज॒ इत्य॑हः - भाजः॑ । वै । ए॒ताः । दे॒वाः । अग्रे᳚ । एति॑ । अ॒ह॒र॒न्न् ।
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अथ त्रयस्त्रिंशद्रात्राः । तत्र प्रथमः प्रस्तूयते - द्वे ववेत्यादि ॥ देवसत्रे देवानां प्रधानभूते अभिमते सत्रे अत एव देवप्राप्तौ मुख्यसाधनभूते तस्मादेतेन त्रयस्त्रिंशदहेन साक्षादव्यवधानेन देवता अभ्यारोहन्ति सर्वपापनिवृत्तिहेतुत्वात् अस्य । 'गतिर्गतौ' इति पूर्वस्य निपातः, समासश्च । तदेवाह - यथा खल्वित्यादि । यथा लोके कश्चित्छ्रेयान् पुरुषः अभ्यारूढः कामयते पुनरप्युच्छ्रितो भवितुं कामयते तथा च करोति तदनुरूपं च यागादि कर्मारभते तथा कुर्वन्नसौ यद्यवविध्यति तन्निर्वहणाशक्तौ यद्यवहीयते पापीयान् पापतरो भवति श्रेयानेव स्यात् । अथ यदि कश्चिन्नावविध्यति सदृङ् समानरूप एव स्यात् नोत्कर्षलाभः, प्रमादसम्भावनया निर्दोषत्वनिश्चयाभावात् । त्रयस्त्रिंशदहस्तु तमपि दोषं निवर्तयतीति भ्रातृव्यभूतेन सर्वेण पाप्मना व्यावर्तन्ते व्यावृत्तिं गच्छन्ति । तस्मादनेन साक्षाद्देवता अभ्यारोहत्येवेति स्तुत्या विधीयते ॥
2 अहर्भाज इत्यादि ॥ एकमहरेको भजते इतरमितर इत्येकैकमहर्भजमाना देवा एताः त्रयस्त्रिंशतं रात्रीराहरन् । अहरेको भजताहरेकः इति वीप्सा विस्पष्टं दर्शयति । अथ ताभिस्ते प्रबाहुक्समं आर्ध्रुवन् सर्वे । य एवमित्यादि । गतम् । ग्रामणीयं सङ्घातस्य नेतृत्वम् । ब्राह्मणादित्वात् ण्यञ् । यस्येति लोपाभावश्छान्दसः । ङित्त्वादाद्युदात्तत्वम् ॥
3 पञ्चाहा इत्यादि ॥ अह्नां प्रदर्शनम् । पश्चाह उक्तः । आभिप्लाविका ज्योतिरादयः अन्त्येन विधिना गृह्यन्ते । सामर्थ्यान् चत्वारः पञ्चाहा भवन्ति, तथाभिमतसङ्ख्यापूरणात् । पञ्च वा ऋतव इत्यादि । व्याख्यातम् ॥
4 त्रीण्याश्विनानीत्यादि ॥ आश्विनेन शस्त्रेण लक्षितानि त्रीण्यहानि अतिरात्राख्यानि । आद्यं मध्यममन्त्यं च । तैः त्रिषु लोकेषु प्रतिष्ठिता भवन्ति त्रित्वान्वयात् । अथो अपि च यज्ञस्येन्द्रियाणि त्रीणि ऋगादीनि गायत्रादीनि वा सवनानि तान्यवरुन्धते । विश्वजित् मध्यममहः सर्वपृष्ठश्च भवति । तत्र विश्वज्जिद्धर्मतया अन्नाद्यावरोधः । सर्वपृष्ठत्वगुणेन सर्वस्य जयः । ततश्चत्रिषु पञ्चाहेषु व्यतीतेषु विश्वजित् अतिरात्रः तत एकाहः पञ्चाह इति (आद्यन्तातिरात्रौ) इत्थं त्रयोविंशतिरहानि भवन्ति ॥
5 अथ द्वादशाहः परिशिष्यते, विधातुमाह - वाग्वा इत्यादि ॥ तद्धेतुत्वात्ताच्छब्द्यम् । विश्वजितोतिरात्रात् पुरस्ताद्यदि द्वादशाहमुपेयुः अनाप्तां अपर्याप्तां मन्त्रैः क्षीणां उपेयुः । ततश्चोपदासुका उपक्षयशीला यजमानानां वाक् स्यात् । छान्दस उकञ् । तस्मादुपरिष्टादेव द्वादशाहमुपयन्ति । आप्तामेव वाचमुपयन्ति । तस्मात् उपरिष्टात् ऊर्ध्वं नाभेर्वर्तमानतया उच्छ्रिततया सर्वेऽपि वयं वदामः ॥
6 इदानीं द्वादशाहीयं दशरात्रमुपादित्समानः स्तौति - अवान्तरमित्यादि ॥ द्वादशाहावयवभूतेन दशरात्रेणेत्यर्थः । पुनरपि स्तौति - तामित्यादि । शुल्बस्य उदङ्को नाम पुत्र एतामेव दशरात्रात्मिकां सत्रस्य द्वादशाहस्य ऋद्धिं सत्रफलस्य वाचस्स्समृद्विं समृद्धिहेतुमुवाच । यद्वा - सत्रस्य त्रयस्त्रिंशद्रात्रस्य ऋद्धिं फलसमृद्धिहेतुं एतद्दशरात्रमुवाच तस्माद्दशरात्रः सत्रस्य ऋद्ध्यै भवति । अथो अपि च यत्पूर्वेष्वहस्सु प्रमादाद्विलोम विगुणं क्रियते तस्य शान्तिरेषैवेति वेदितव्यम् ॥
7 'द्व्यनीका इत्यादि ॥ द्व्यनीकाः द्विव्यूहा । निरुदकादित्वादुतरपदान्तोदात्तत्वम् । तत्रातिरात्रादिषोडशक आद्यो व्यूहः । अतिरात्रान्त अन्यो व्यूहः । तयोरन्तर्विश्वजिदतिरात्रः यजमानात्मा । तदिदमाह - यजमाना विश्वजिदित्यादि । द्व्यनीका स्त्रीपुंसात्मकव्यूहद्वयवती प्रजा आजायते सर्वतो जायते । अभितोऽतिरात्रौ सामर्थ्यात् उक्तानां कलानां परिग्रहाय भवतः ॥
इति सप्तमे चतुर्थे पञ्चमोनुवाकः ॥