-न्नह॒रेको ऽभ॑ज॒ता-ह॒रेक॒स्ताभि॒र्वैते प्र॒बाहु॑गार्द्ध्नुव॒न॒. य ए॒वं ॅवि॒द्वाꣳस॑स्त्रयस्त्रिꣳशद॒हमास॑ते॒ सर्व॑ ए॒व प्र॒बाहु॑गृद्ध्नुवन्ति॒ सर्वे॒ ग्राम॑णीयं॒ प्राप्नु॑वन्ति पञ्चा॒हा भ॑वन्ति॒ पञ्च॒ वा ऋ॒तवः॑ संॅवथ्स॒र ऋ॒तुष्वे॒व सं॑ॅवथ्स॒रे प्रति॑ तिष्ठ॒न्त्यथो॒ पञ्चा᳚क्षरा प॒ङ्क्तिः पाङ्क्तो॑ य॒ज्ञो य॒ज्ञ्मे॒वाव॑ रुन्धते॒ त्रीण्या᳚श्वि॒नानि॑ भवन्ति॒ त्रय॑ इ॒मे लो॒का ए॒- [ ]
पदपाठः (Word-by-word)
अहः॑ । एकः॑ । अभ॑जत । अहः॑ । एकः॑ । ताभिः॑ । वै । ते । प्र॒बाहु॒गिति॑ प्र - बाहु॑क् । आ॒द्र्ध्नु॒व॒न्न् । ये । ए॒वम् । वि॒द्वाꣳसः॑ । त्र॒य॒स्त्रिꣳ॒॒श॒द॒हमिति॑ त्रयस्त्रिꣳशत् - अ॒हम् । आस॑ते । सर्वे᳚ । ए॒व । प्र॒बाहु॒गिति॑ प्र - बाहु॑क् । ऋ॒द्ध्नु॒व॒न्ति॒ । सर्वे᳚ । ग्राम॑णीय॒मिति॒ ग्राम॑ - नी॒य॒म् । प्रेति॑ । आ॒प्नु॒व॒न्ति॒ । प॒ञ्चा॒हा इति॑ पञ्च-अ॒हाः । भ॒व॒न्ति॒ । पञ्च॑ । वै । ऋ॒तवः॑ । सं॒ॅव॒थ्स॒र इति॑ सं - व॒थ्स॒रः । ऋ॒तुषु॑ । ए॒व । सं॒ॅव॒थ्स॒र इति॑ सं-व॒थ्स॒रे । प्रतीति॑ । ति॒ष्ठ॒न्ति॒ । अथो॒ इति॑ । पञ्चा᳚क्ष॒रेति॒ पञ्च॑-अ॒क्ष॒रा॒ । प॒ङ्क्तिः । पाङ्क्तः॑ । य॒ज्ञ्ः । य॒ज्ञ्म् । ए॒व । अवेति॑ । रु॒न्ध॒ते॒ । त्रीणि॑ । आ॒श्वि॒नानि॑ । भ॒व॒न्ति॒ । त्रयः॑ । इ॒मे । लो॒काः । ए॒षु ।