प्रश्नः 4 - Complete Audio Recording

Note: Time markers for individual verses will be added soon. Currently playing the complete Prasna recording.

TS 7.4.5.4 TS 7.4.5.4
ॅवै द॑शरा॒त्रेण॑ प्र॒जाप॑तिः प्र॒जा अ॑सृजत॒ यद्-द॑शरा॒त्रो भव॑ति प्र॒जा ए॒व तद् यज॑मानाः सृजन्त ए॒ताꣳ ह॒ वा उ॑द॒ङ्कः शौ᳚ल्बाय॒नः स॒त्रस्यर्द्धि॑मुवाच॒ यद् द॑शरा॒त्रो यद् द॑शरा॒त्रो भव॑ति स॒त्रस्यर्द्ध्या॒ अथो॒ यदे॒व पूर्वे॒ष्वह॑स्सु॒ विलो॑म क्रि॒यते॒ तस्यै॒वैषा शान्ति॑द्र्व्यनी॒का वा ए॒ता रात्र॑यो॒ यज॑माना विश्व॒जिथ् स॒हाति॑रा॒त्रेण॒ पूर्वाः॒ षोड॑श स॒हा ( ) ति॑रा॒त्रेणोत्त॑राः॒ षोड॑श॒ य ए॒वं ॅवि॒द्वाꣳस॑स्त्रयस्त्रिꣳशद॒हमास॑त॒ ऐषां᳚ द्व्यनी॒का प्र॒जा जा॑यते ऽतिरा॒त्राव॒भितो॑ भवतः॒ परि॑गृहीत्यै ॥
पदपाठः (Word-by-word)
वै । द॒श॒रा॒त्रेणेति॑ दश - रा॒त्रेण॑ । प्र॒जाप॑ति॒रिति॑ प्र॒जा - प॒तिः॒ । प्र॒जा इति॑ प्र - जाः । अ॒सृ॒ज॒त॒ । यत् । द॒श॒रा॒त्र इति॑ दश - रा॒त्रः । भव॑ति । प्र॒जा इति॑ प्र - जाः । ए॒व । तत् । यज॑मानाः । सृ॒ज॒न्ते॒ । ए॒ताम् । ह॒ । वै । उ॒द॒ङ्कः । शौ॒ल्बा॒य॒नः । स॒त्रस्य॑ । ऋद्धि᳚म् । उ॒वा॒च॒ । यत् । द॒श॒रा॒त्र इति॑ दश - रा॒त्रः । यत् । द॒श॒रा॒त्र इति॑ दश - रा॒त्रः । भव॑ति । स॒त्रस्य॑ । ऋद्ध्यै᳚ । अथो॒ इति॑ । यत् । ए॒व । पूर्वे॑षु । अह॒स्स्वित्यहः॑ - सु॒ । विलो॒मेति॒ वि - लो॒म॒ । क्रि॒यते᳚ । तस्य॑ । ए॒व । ए॒षा । शान्तिः॑ । द्व्य॒नी॒का इति॑ द्वि - अ॒नी॒काः । वै । ए॒ताः । रात्र॑यः । यज॑मानाः । वि॒श्व॒जिदिति॑ विश्व - जित् । स॒ह । अ॒ति॒रा॒त्रेणेत्य॑ति - रा॒त्रेण॑ । पूर्वाः᳚ । षोड॑श । स॒ह ( ) । अ॒ति॒रा॒त्रेणेत्य॑ति - रा॒त्रेण॑ । उत्त॑रा॒ इत्युत् - त॒राः॒ । षोड॑श । ये । ए॒वम् । वि॒द्वाꣳसः॑ । त्र॒य॒स्त्रिꣳ॒॒श॒द॒हमिति॑ त्रयस्त्रिꣳशत् - अ॒हम् । आस॑ते । एति॑ । ए॒षा॒म् । द्व्य॒नी॒केति॑ द्वि - अ॒नी॒का । प्र॒जेति॑ प्र - जा । जा॒य॒ते॒ । अ॒ति॒रा॒त्रावित्य॑ति - रा॒त्रौ । अ॒भितः॑ । भ॒व॒तः॒ । परि॑गृहीत्या॒ इति॒ परि॑ - गृ॒ही॒त्यै॒ ॥
पदसंख्या: 67