सं॑ॅवथ्स॒रस्य॒ यत् फ॑ल्गुनी पूर्णमा॒सो मु॑ख॒त ए॒व सं॑ॅवथ्स॒रमा॒रभ्य॑ दीक्षन्ते॒ तस्यैकै॒व नि॒र्या यथ् साम्मे᳚घ्ये विषू॒वान्थ् स॒पंद्य॑ते चित्रापूर्णमा॒से दी᳚क्षेर॒न् मुखं॒ ॅवा ए॒तथ् सं॑ॅवथ्स॒रस्य॒ यच्चि॑त्रापूर्णमा॒सो मु॑ख॒त ए॒व सं॑ॅवथ्स॒रमा॒रभ्य॑ दीक्षन्ते॒ तस्य॒ न का च॒न नि॒र्या भ॑वति चतुर॒हे पु॒रस्ता᳚त् पौर्णमा॒स्यै दी᳚क्षेर॒न् तेषा॑मेकाष्ट॒कायां᳚ क्र॒यः सं प॑द्यते॒ तेनै॑काष्ट॒कां न छ॒म्बट् कु॑र्वन्ति॒ तेषां᳚ - [ ]
पदपाठः (Word-by-word)
सं॒ॅव॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । यत् । फ॒ल्गु॒नी॒पू॒र्ण॒मा॒स इति॑ फल्गुनी-पू॒र्ण॒मा॒सः । मु॒ख॒तः । ए॒व । सं॒ॅव॒थ्स॒रमिति॑ सं-व॒थ्स॒रम् । आ॒रभ्येत्या᳚ - रभ्य॑ । दी॒क्ष॒न्ते॒ । तस्य॑ । एका᳚ । ए॒व । नि॒र्येति॑ निः - या । यथ् । सांमे᳚घ्य॒ इति॒ सां - मे॒घ्ये॒ । वि॒षू॒वानिति॑ विषु - वान् । स॒पंद्य॑त॒ इति॑ सं - पद्य॑ते । चि॒त्रा॒पू॒र्ण॒मा॒स इति॑ चित्रा - पू॒र्ण॒मा॒से । दी॒क्षे॒र॒न्न् । मुख᳚म् । वै । ए॒तत् । सं॒ॅव॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । यत् । चि॒त्रा॒पू॒र्ण॒मा॒स इति॑ चित्रा - पू॒र्ण॒मा॒सः । मु॒ख॒तः । ए॒व । सं॒ॅव॒थ्स॒रमिति॑ सं - व॒थ्स॒रम् । आ॒रभ्येत्या᳚ - रभ्य॑ । दी॒क्ष॒न्ते॒ । तस्य॑ । न । का । च॒न । नि॒र्येति॑ निः - या । भ॒व॒ति॒ । च॒तु॒र॒ह इति॑ चतुः-अ॒हे । पु॒रस्ता᳚त् । पौ॒र्ण॒मा॒स्या इति॑ पौर्ण-मा॒स्यै । दी॒क्षे॒र॒न्न् । तेषा᳚म् । ए॒का॒ष्ट॒काया॒मित्ये॑क - अ॒ष्ट॒काया᳚म् । क्र॒यः । समिति॑ । प॒द्य॒ते॒ । तेन॑ । ए॒का॒ष्ट॒कामित्ये॑क-अ॒ष्ट॒काम् । न । छ॒म्बट् । कु॒र्व॒न्ति॒ । तेषा᳚म् ।