पूर्वप॒क्षे सु॒त्या सं प॑द्यते पूर्वप॒क्षं मासा॑ अ॒भि सं प॑द्यन्ते॒ ते पू᳚र्वप॒क्ष उत् ति॑ष्ठन्ति॒ तानु॒त्तिष्ठ॑त॒ ओष॑धयो॒ वन॒स्पत॒योऽनूत् ति॑ष्ठन्ति॒ तान् क॑ल्या॒णी की॒र्तिरनूत् ति॑ष्ठ॒त्यरा᳚थ् सुरि॒मे यज॑माना॒ इति॒ तदनु॒ सर्वे॑ राद्ध्नुवन्ति ॥
पदपाठः (Word-by-word)
पू॒र्व॒प॒क्ष इति॑ पूर्व - प॒क्षे । सु॒त्या । समिति॑ । प॒द्य॒ते॒ । पू॒र्व॒प॒क्षमिति॑ पूर्व - प॒क्षम् । मासाः᳚ । अ॒भि । समिति॑ । प॒द्य॒न्ते॒ । ते । पू॒र्व॒प॒क्ष इति॑ पूर्व-प॒क्षे । उदिति॑ । ति॒ष्ठ॒न्ति॒ । तान् । उ॒त्तिष्ठ॑त॒ इत्यु॑त्-तिष्ठ॑तः । ओष॑धयः । वन॒स्पत॑यः । अनु॑ । उदिति॑ । ति॒ष्ठ॒न्ति॒ । तान् । क॒ल्या॒णी । की॒र्तिः । अनु॑ । उदिति॑ । ति॒ष्ठ॒ति॒ । अरा᳚थ्सुः । इ॒मे । यज॑मानाः । इति॑ । तत् । अन्विति॑ । सर्वे᳚ । रा॒द्ध्नु॒व॒न्ति॒ ॥