TB 3.9.1

4 पञ्चाशत्

3.9.1 अनुवाकं 1 -अष्टादशिनां ग्राभ्याणां आरण्Yआनां च पशूनां प्रयोगः

3.9.1.1
प्र॒जाप॑ति-रश्वमे॒धम॑सृजत । सो᳚ऽस्माथ्सृ॒ष्टो-ऽपा᳚क्रामत् । तम॑ष्टाद॒शिभि॒रनु॒ प्रायु॑ङ्क्त । तमा᳚प्नोत् । तमा॒प्त्वा ऽष्टा॑द॒शिभि॒रवा॑रुन्ध । यद॑ष्टाद॒शिन॑ आल॒भ्यन्ते᳚ । य॒ज्ञ्मे॒व तैरा॒प्त्वा यज॑मा॒नो-ऽव॑रुन्धे ॥ स॒म्ॅव॒थ्स॒रस्य॒ वा ए॒षा प्र॑ति॒मा । यद॑ष्टाद॒शिनः॑ । द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॑
कोर्वै (Index)
(ऋ॒तवः॑ - स्याता - मुथ्सृ॒जेथ् - स्य॑त॒स्त्रीणि॑ च)
3.9.1.2
स॒म्ॅव॒थ्स॒रो᳚ऽष्टाद॒शः । यद॑ष्टाद॒शिन॑ आल॒भ्यन्ते॑ । स॒म्ॅव॒थ्स॒रमे॒व तैरा॒प्त्वा यजमा॒नो-ऽव॑रुन्धे ॥ अ॒ग्नि॒ष्ठे᳚ ऽन्यान् प॒शूनु॑पा-क॒रोति॑ । इत॑रेषु॒ यूपे᳚ष्वष्टाद॒शिनो-ऽजा॑मित्वाय ॥ नव॑ न॒वाल॑भ्यन्ते सवीर्य॒त्वाय॑ ॥ यदा॑र॒ण्यैः सꣳ॑ स्था॒पये᳚त् । व्यव॑स्येतां पिता पु॒त्रौ । व्यद्ध्वा॑नः क्रामेयुः । विदू॑रं॒ ग्राम॑यो र्ग्रामा॒न्तौ स्या॑ताम्
कोर्वै (Index)
(ऋ॒तवः॑ - स्याता - मुथ्सृ॒जेथ् - स्य॑त॒स्त्रीणि॑ च)
3.9.1.3
ऋ॒क्षीकाः᳚ पुरुषव्या॒घ्राः प॑रिमो॒षिण॑ आव्या॒धिनी॒-स्तस्क॑रा॒ अर॑ण्ये॒ष्वा-जा॑येरन्न् ॥ तदा॑हुः । अप॑शवो॒ वा ए॒ते । यदा॑र॒ण्याः । यदा॑र॒ण्यैः सꣳ॑स्था॒पये᳚त । क्षि॒प्रे यज॑मान॒-मर॑ण्यं मृ॒तꣳ ह॑रेयुः । अर॑ण्यायतना॒ ह्या॑र॒ण्याः प॒शव॒ इति॑ । यत्प॒शून्नालभे॑त । अन॑वरुद्धा अस्य प॒शवः॑ स्युः । यत्पर्य॑ग्नि-कृतानुथ्सृ॒जेत्
कोर्वै (Index)
(ऋ॒तवः॑ - स्याता - मुथ्सृ॒जेथ् - स्य॑त॒स्त्रीणि॑ च)
3.9.1.4
य॒ज्ञ्॒वे॒श॒सं कु॑र्यात् ॥ यत्प॒शूना॒लभ॑ते । तेनै॒व प॒शूनव॑रुन्धे । यत्पर्य॑ग्नि-कृतानुथ्सृ॒जत्य-य॑ज्ञ्वेशसाय । अव॑रुद्धा अस्य प॒शवो॒ भव॑न्ति । न य॑ज्ञ्वेश॒ संभ॑वति । न यज॑मान॒-मर॑ण्यं मृ॒तꣳ ह॑रन्ति ॥ ग्रा॒म्यैः सꣳस्था॑पयति । ए॒ते वै प॒शवः॒ क्षेमो॒ नाम॑ । सं पि॑ता पु॒त्राव व॑स्यतः ( ) । समद्ध्वा॑नः क्रामन्ति । स॒म॒न्ति॒कं ग्राम॑यो-र्ग्रामा॒न्तौ भ॑वतः । नर्क्षीकाः᳚ पुरुषव्या॒घ्राः प॑रिमो॒षिण॑ आव्या॒धिनी॒-स्तस्क॑रा॒ अर॑ण्ये॒॒ष्वा जा॑यन्ते ।
कोर्वै (Index)
(ऋ॒तवः॑ - स्याता - मुथ्सृ॒जेथ् - स्य॑त॒स्त्रीणि॑ च)