TB 3.9.15

3 पञ्चाशत्

3.9.15 अनुवाकं 15 -अवभृथहोमविशेषाः

3.9.15.1
सर्वे॑षु॒ वा ए॒षु लो॒केषु॑ मृ॒त्यवो॒ऽन्वाय॑त्ताः । तेभ्यो॒ यदाहु॑ती॒र्न जु॑हु॒यात् । लो॒के लो॑क एनं मृ॒त्युर्वि॑न्देत् । मृ॒त्यवे॒ स्वाहा॑ मृ॒त्यवे॒ स्वाहेत्य॑भि पू॒र्वमाहु॑ती-र्जुहोति । लो॒काल्लो॑कादे॒व मृ॒त्युमव॑यजते । नैनं॑ ॅलो॒के ला॑के मृ॒त्युर्वि॑न्दति ॥ यद॒मुष्मै॒ स्वाहा॒ऽमुष्मै॒ स्वाहेति॒ जुह्व॑थ्सं॒ चक्षी॑त । ब॒हुं मृ॒त्युम॒मित्रं॑ कुर्वीत । मृ॒त्यवे॒ स्वाहेत्येक॑स्मा ए॒वैका᳚-ञ्जुहुयात् । एको॒ वा अ॒मुष्मि॑न् ॅला॒के मृ॒त्युः
कोर्वै (Index)
(लो॒के मृ॒त्युर् - जु॒होति॑ - मू॒द्र्धञ्जु॑होति॒ द्वे च॑)
3.9.15.2
अ॒श॒न॒या॒ मृ॒त्युरे॒व । तमे॒वामुष्मि॑न् ॅलो॒केऽव॑यजते ॥ भ्रू॒ण॒ह॒त्यायै॒ स्वाहेत्य॑वभृ॒थ आहु॑तिं जुहोति । भ्रू॒ण॒ह॒त्यामे॒ वा व॑यजते ॥ तदा॑हुः । यद्भ्रू॑णह॒त्या ऽपा॒त्र्याऽथ॑ । कस्मा᳚द्-य॒ज्ञेऽपि॑ क्रियत॒ इति॑ ॥ अमृ॑त्यु॒र्वा अ॒न्यो भ्रू॑णह॒त्याया॒ इत्या॑हुः । भ्रू॒ण॒ह॒त्या वाव मृ॒त्युरिति॑ । यद्भ्रू॑णह॒त्यायै॒ स्वाहेत्य॑वभृ॒थ आहुतिं॑ जु॒होति॑ ।
कोर्वै (Index)
(लो॒के मृ॒त्युर् - जु॒होति॑ - मू॒द्र्धञ्जु॑होति॒ द्वे च॑)
3.9.15.3
मृ॒त्युमे॒ वा हु॑त्या तर्पयि॒त्वा प॑रि॒पाणं॑ कृ॒त्वा । भ्रू॒ण॒घ्ने भे॑ष॒जं क॑रोति ॥ ए॒ताꣳ ह॒ वै मु॑ण्डि॒भ औ॑दन्य॒वः । भ्रू॒ण॒ह॒त्यायै॒ प्राय॑श्चित्तिं ॅवि॒दाञ्च॑कार । यो हा॒स्यापि॑ प्र॒जायां᳚ ब्राह्म॒णꣳ हन्ति॑ । सर्व॑स्मै॒ तस्मै॑ भेष॒जं क॑रोति ॥ जु॒म्ब॒काय॒ स्वाहेत्य॑वभृ॒थ उ॑त्त॒मामाहु॑तिं जुहोति । वरु॑णो॒ वै जु॑म्ब॒कः । अ॒न्त॒त ए॒व वरु॑ण॒-मव॑यजते ॥ ख॒ल॒तेर्वि॑क्लि॒धस्य॑ शु॒क्लस्य॑ पिङ्गा॒क्षस्य॑ मू॒द्र्धञ्जु॑होति ( ) । ए॒तद्वै वरु॑णस्य रू॒पं । रू॒पेणै॒व वरु॑ण॒मव॑यजते ।
कोर्वै (Index)
(लो॒के मृ॒त्युर् - जु॒होति॑ - मू॒द्र्धञ्जु॑होति॒ द्वे च॑)