TB 3.9.7

5 पञ्चाशत्

3.9.7 अनुवाकं 7 -तत्र मन्त्राः

3.9.7.1
अप॒ वा ए॒तस्मा॒च्छ्री रा॒ष्ट्रं क्रा॑मति । यो᳚ऽश्वमे॒धेन॒ यज॑ते । ऊ॒द्र्ध्वामे॑ना॒-मुच्छ्र॑यता॒-दित्या॑ह । श्रीर्वै रा॒ष्ट्रम॑श्वमे॒धः । श्रिय॑मे॒वास्म॑ रा॒ष्ट्रमू॒द्र्ध्व-मुच्छ्र॑यति ॥ वे॒णु॒भा॒रं गि॒रावि॒-वेत्या॑ह । रा॒ष्ट्रं ॅवै भा॒रः । रा॒ष्ट्रमे॒वास्मै॒ पर्यू॑हति ॥ अथा᳚स्या॒ मद्ध्य॑मेधता॒-मित्या॑ह । श्रीर्वै रा॒ष्ट्रस्य॒ मद्ध्य᳚म्
कोर्वै (Index)
(रा॒ष्ट्रस्य॒ मद्ध्य॒म् - पुष्य॑ति॒ - गभो॑ - रुन्धे - दधते च॒त्वारि॑ च)
3.9.7.2
श्रिय॑मे॒वा-व॑रुन्धे ॥ शी॒ते वाते॑ पु॒नन्नि॒-वेत्या॑ह । क्षेमो॒ वै रा॒ष्ट्रस्य॑ शी॒तो वातः॑ । क्षेम॑मे॒वा-व॑रुन्धे ॥ यद्ध॑रि॒णी यव॒मत्तीत्या॑ह । विड्वै ह॑रि॒णी । रा॒ष्ट्रं ॅयवः॑ । विशं॑ चै॒वास्मै॑ रा॒ष्ट्रं च॑ स॒मीची॑ दधाति ॥ न पु॒ष्टं प॒शु म॑न्यत॒ इत्या॑ह । तस्मा॒द् राजा॑ प॒शून्न पुष्य॑ति ।
कोर्वै (Index)
(रा॒ष्ट्रस्य॒ मद्ध्य॒म् - पुष्य॑ति॒ - गभो॑ - रुन्धे - दधते च॒त्वारि॑ च)
3.9.7.3
शू॒द्रा यदर्य॑जारा॒ न पोषा॑य धनाय॒तीत्या॑ह । तस्मा᳚-द्वैशीपु॒त्रं नाभिषि॑ञ्चन्ते ॥ इ॒यं ॅय॒का श॑कुन्ति॒केत्या॑ह । विड्वै श॑कुन्ति॒का । रा॒ष्ट्रम॑श्वमे॒धः । विशं॑ चै॒वास्मै॑ रा॒ष्ट्रं च॑ स॒मीची॑ दधाति ॥ आ॒हल॒मिति॒ सर्प॒तीत्या॑ह । तस्मा᳚द् रा॒ष्ट्राय॒ विशः॑ सर्पन्ति ॥ आह॑तं ग॒भे पस॒ इत्या॑ह । विड्वै गभः॑
कोर्वै (Index)
(रा॒ष्ट्रस्य॒ मद्ध्य॒म् - पुष्य॑ति॒ - गभो॑ - रुन्धे - दधते च॒त्वारि॑ च)
3.9.7.4
रा॒ष्ट्रं पसः॑ । रा॒ष्ट्रम॒व वि॒श्याह॑न्ति । तस्मा᳚द् रा॒ष्ट्रं ॅविशं॒ घातु॑कम् ॥ मा॒ता च॑ ते पि॒ता च॑ त॒ इत्या॑ह । इ॒यं ॅवै मा॒ता । अ॒सौ पि॒ता । आ॒भ्यामे॒वैनं॒ परि॑ददाति ॥ अग्रं॑ ॅवृ॒क्षस्य॑ रोहत॒ इत्या॑ह । श्रीर्वै व॒क्षस्याग्र᳚म् । श्रिय॑मे॒वाव॑रुन्धे ।
कोर्वै (Index)
(रा॒ष्ट्रस्य॒ मद्ध्य॒म् - पुष्य॑ति॒ - गभो॑ - रुन्धे - दधते च॒त्वारि॑ च)
3.9.7.5
प्रसु॑ला॒मीति॑ ते पि॒ता ग॒भे मु॒ष्टिम॑तꣳसय॒-दित्या॑ह । विड्वै गभः॑ । रा॒ष्ट्रं मु॒ष्टिः । रा॒ष्ट्रमे॒व वि॒श्याह॑न्ति । तस्मा᳚द् रा॒ष्ट्रं ॅविशं॒ घातु॑कम् ॥ अप॒ वा ए॒तेभ्यः॑ प्रा॒णाः क्रा॑मन्ति । ये य॒ज्ञेऽपू॑तं॒ ॅवद॑न्ति । द॒धि॒क्राव्.ण्णो॑ अकारिष॒मिति॑ सुरभि॒-मती॒मृचं॑ ॅवदन्ति । प्रा॒णा वै सु॑र॒भयः॑ । प्रा॒णाने॒वात्मन्द॑धते ( ) । नैभ्यः॑ प्रा॒णा अप॑क्रामन्ति ॥ आपो॒ हिष्ठा म॑यो॒भुव॒ इत्य॒द्भिर्मा᳚र्जयन्ते । आपो॒ वै सर्वा॑ दे॒वताः᳚ । दे॒वता॑भिरे॒-वात्मानं॑ पवयन्ते ।
कोर्वै (Index)
(रा॒ष्ट्रस्य॒ मद्ध्य॒म् - पुष्य॑ति॒ - गभो॑ - रुन्धे - दधते च॒त्वारि॑ च)