TB 3.9.13

3 पञ्चाशत्

3.9.13 अनुवाकं 13 -संवथ्सरानुष्ठानमिष्टीनाम्

3.9.13.1
प्र॒जाप॑ति-रश्वमे॒ध-म॑सृजत । सो᳚-ऽस्माथ्सृ॒ष्टो-ऽपा᳚क्रामत् । तं ॅय॑ज्ञ्-क्र॒तुभि॒-रन्वै᳚च्छत् । तं ॅय॑ज्ञ्-क्र॒तुभि॒-र्नान्व॑विन्दत् । तमिष्टि॑भि॒-रन्वै᳚च्छत् । तमिष्टि॑भि॒-रन्व॑विन्दत् । तदिष्टी॑ना-मिष्टि॒त्वम् । यथ्सं॑ॅवथ्स॒र-मिष्टि॑भि॒-र्यज॑ते । अश्व॑मे॒व तदन्वि॑च्छति ॥ सा॒वि॒त्रियो॑ भवन्ति
कोर्वै (Index)
(भ॒व॒न्ति॒ - धृत्या॑ - एन॒ मन्वि॑च्छ॒त्येकं॑ च)
3.9.13.2
इ॒यं ॅवै स॑वि॒ता । यो वा अ॒स्यां नश्य॑ति॒ यो नि॒लय॑ते । अ॒स्यां ॅवाव तं ॅवि॑न्दन्ति । न वा इ॒मां कश्च॒नेत्या॑हुः । ति॒र्यङ्नोद्र्ध्वो-ऽत्ये॑तुमर्.ह॒तीति॑ । यथ्सा॑वि॒त्रियो॒ भव॑न्ति । स॒वि॒तृ-प्र॑सूत ए॒वैन॑मिच्छति ॥ ई॒श्व॒रो वा अश्वः॒ प्रमु॑क्तः॒ परां᳚ परा॒वतं॒ गन्तोः᳚ । यथ्सा॒यं धृती᳚र्जु॒होति॑ । अश्व॑स्य॒ यत्यै॒ धृत्यै᳚ ।
कोर्वै (Index)
(भ॒व॒न्ति॒ - धृत्या॑ - एन॒ मन्वि॑च्छ॒त्येकं॑ च)
3.9.13.3
यत्प्रा॒तरिष्टि॑भि॒-र्यज॑ते । अश्व॑मे॒व तदन्वि॑च्छति । यथ्सा॒यं धृती᳚र्जु॒होति॑ । अश्व॑स्यै॒व यत्यै॒ धृत्यै᳚ । तस्मा᳚थ्सा॒यं प्र॒जाः क्षे॒म्या॑ भवन्ति ॥ यत्प्रा॒त-रिष्टि॑भि॒-र्यज॑ते । अश्व॑मे॒व तदन्वि॑च्छति । तस्मा॒द्दिवा॑ नष्टै॒ष ए॑ति ॥ यत्प्रा॒तरिष्टि॑भि॒-र्यज॑ते सा॒यं धृती᳚र्जु॒होति॑ । अ॒हो॒रा॒त्राभ्या॑-मे॒वैन॒-मन्वि॑च्छति ( ) । अथो॑ अहोरा॒त्राभ्या॑-मे॒वास्मै॑ योगक्षे॒मं क॑ल्पयति ।
कोर्वै (Index)
(भ॒व॒न्ति॒ - धृत्या॑ - एन॒ मन्वि॑च्छ॒त्येकं॑ च)