TB 3.9.2

4 पञ्चाशत्

3.9.2 अनुवाकं 2 -चातुर्मास्यपशूनां प्रयोगः

3.9.2.1
प्र॒जाप॑तिर-कामयतो॒भौ लो॒काव-व॑रुन्धी॒येति॑ । स ए॒तानु॒भया᳚न् प॒शून॑ पश्यत् । ग्रा॒म्याꣳश्चा॑-र॒ण्याꣳश्च॑ । तानाल॑भत । तैर्वै स उ॒भौ लो॒काव वा॑रुन्ध । ग्रा॒म्यैरे॒व प॒शुभि॑रि॒मं ॅलो॒कम वा॑रुन्ध । आ॒र॒ण्यैर॒मुम् । यद्ग्रा॒म्यान् प॒शूना॒लभ॑ते । इ॒ममे॒व तैर्लो॒कमव॑रुन्धे । यदा॑र॒ण्यान्
कोर्वै (Index)
(आ॒र॒ण्यान्-ॅलो॒को-द॒शिन॑ आल॒भ्यन्ते॒-नाना॑रूपाः प॒शवो॒ द्वे च॑)
3.9.2.2
अ॒मुं तैः ॥ अन॑वरुद्धो॒ वा ए॒तस्य॑ सम्ॅवथ्स॒र इत्या॑हुः । य इ॒त इ॒तश्चातुर्मा॒स्यानि॑ स॒म्ॅवथ्स॒रं प्र॑यु॒ङ्क्त इति॑ । ए॒तावा॒न्॒. वै स॑म्ॅवथ्स॒रः । यच्चा॑तुर्मा॒स्यानि॑ । यदे॒ते चातु॑र्मा॒स्याः प॒शव॑ आल॒भ्यन्ते᳚ । प्र॒त्यक्ष॑मे॒व तैः स॑म्ॅवथ्स॒रं यज॑मा॒नो-ऽव॑रुन्धे । ॥वि वा ए॒ष प्र॒जया॑ प॒शुभि॑र्. ऋद्ध्यते । यः स॑म्ॅवथ्स॒रं प्र॑यु॒ङ्क्ते । स॒म्ॅव॒थ्स॒रः सु॑व॒र्गो लो॒कः
कोर्वै (Index)
(आ॒र॒ण्यान्-ॅलो॒को-द॒शिन॑ आल॒भ्यन्ते॒-नाना॑रूपाः प॒शवो॒ द्वे च॑)
3.9.2.3
सु॒व॒र्गं तु लो॒कं नाप॑राद्ध्नोति । प्र॒जा वै प॒शव॑ एकाद॒शिनी᳚ । यदे॒त ऐ॑कादशि॒नाः प॒शव॑ आल॒भ्यन्ते᳚ । सा॒क्षादे॒व प्र॒जां प॒शून्. यज॑मा॒नो-ऽव॑रुन्धे ॥ प्र॒जाप॑ति-र्वि॒राज॑मसृजत । सा सृ॒ष्टाऽश्व॑मे॒धं प्रावि॑शत् । तां द॒शिभि॒रनु॒ प्रायु॑ङ्क्त । तामा᳚प्नोत् । तामा॒प्त्वा द॒शिभि॒रवा॑रुन्ध । यद्द॒शिन॑ आल॒भ्यन्ते᳚
कोर्वै (Index)
(आ॒र॒ण्यान्-ॅलो॒को-द॒शिन॑ आल॒भ्यन्ते॒-नाना॑रूपाः प॒शवो॒ द्वे च॑)
3.9.2.4
वि॒राज॑मे॒व तैरा॒प्त्वा यज॑मा॒नो-ऽव॑रुन्धे ॥ एका॑दश द॒शत॒ आल॑भ्यन्ते । एका॑दशाक्षरा त्रि॒ष्टुप् । त्रैष्टु॑भाः प॒शवः॑ । प॒शूने॒वाव॑रुन्धे ॥ वै॒श्व॒दे॒वो वा अश्वः॑। ना॒ना॒दे॒व॒त्याः᳚ प॒शवो॑ भवन्ति । अश्व॑स्य सर्व॒त्वाय॑ । नाना॑रूपा भवन्ति । तस्मा॒न्नाना॑रूपाः प॒शवः॑( ) । ब॒हु॒रू॒पा भ॑वन्ति । तस्मा᳚द् बहुरू॒पाः प॒शवः॒ समृ॑द्ध्यै ।
कोर्वै (Index)
(आ॒र॒ण्यान्-ॅलो॒को-द॒शिन॑ आल॒भ्यन्ते॒-नाना॑रूपाः प॒शवो॒ द्वे च॑)