तदा॑हुः । द्वाद॑श ब्रह्मौद॒नान् थ्सꣳस्थि॑त॒ निर्व॑पेत् । द्वा॒द॒शभि॒र्वेष्टि॑भि॒-र्यजे॒तेति॑ ॥ यदिष्टि॑-भि॒र्यजे॑त । उ॒प॒नामु॑क एनं ॅय॒ज्ञ्ः स्या᳚त् । पापी॑याꣳ॒॒स्तु स्या᳚त् । आ॒प्तानि॒ वा ए॒तस्य॒ छन्दाꣳ॑सि । य ई॑जा॒नः । तानि॒ क ए॒ताव॑दाशु॒ पुनः॒ प्रयु॑ञ्जी॒तेति॑ । सर्वा॒ वै सꣳस्थि॑ते य॒ज्ञे वागा᳚प्यते
कोर्वै (Index)
(आ॒प्य॒ते॒ - स॒म्ॅव॒थ्स॒र एकं॑ च)