प्र॒जाप॑ति-रकामयत म॒हान॑न्ना॒दः स्या॒मिति॑ । स ए॒ताव॑श्वमे॒धे म॑हि॒माना॑वपश्यत् । ताव॑गृह्णीत । ततो॒ वै स म॒हान॑न्ना॒दो॑-ऽभवत् । यः का॒मये॑त म॒हान॑न्ना॒दः स्या॒मिति॑ । स ए॒ताव॑श्वमे॒धे म॑हि॒मानौ॑ गृह्णीत । म॒हाने॒वान्ना॒दो भ॑वति ॥ य॒ज॒मा॒न॒दे॒व॒त्या॑ वै व॒पा । राजा॑ महि॒मा । यद्व॒पां म॑हि॒म्नोभ॒यतः॑ परि॒यज॑ति ( ) । यज॑मानमे॒व रा॒ज्येनो॑भ॒यतः॒ परि॑गृह्णाति ॥ पु॒रस्ता᳚-थ्स्वाहाकारा॒ वा अ॒न्ये दे॒वाः । उ॒परि॑ष्टा-थ्स्वाहाकारा अ॒न्ये । ते वा ए॒तेऽश्व॑ ए॒व मेद्ध्य॑ उ॒भये-ऽव॑रुद्ध्यन्ते । यद्व॒पां म॑हि॒म्नोभ॒यतः॑ परि॒यज॑ति । ताने॒वोभया᳚न् प्रीणाति ।
कोर्वै (Index)
(प॒रि॒यज॑ति॒ षट्च॑)