अप॒ वा ए॒तस्मा᳚-त्प्रा॒णाः क्रा॑मन्ति । यो᳚ऽश्वमे॒धेन॒ यज॑ते । प्रा॒णाय॒ स्वाहा᳚ व्या॒नाय॒ स्वाहेति॑ संज्ञ्॒प्यमा॑न॒ आहु॑ती-र्जुहोति । प्रा॒णाने॒वास्मि॑न्दधाति । नास्मा᳚त्प्रा॒णा अप॑क्रामन्ति ॥ अव॑न्तीः॒-स्थाव॑न्ती-स्त्वा-ऽवन्तु । प्रि॒यं त्वा᳚ प्रि॒याणा᳚म् । वर्.षि॑ष्ठ॒माप्यानाम् । नि॒धी॒नां त्वा॑ निधि॒पतिꣳ॑ हवामहे वसोम॒-मेत्या॑ह । अपै॒वास्मै॒ तद्ध्नु॑वते
कोर्वै (Index)
(ह्नु॒व॒ते॒-क्रा॒म॒-न्त्यू॒र्ण्वा॒था॒मित्या॑ह॒-जग॒तीत्या॑ह-कल्पय॒त्येकं॑ च)