TB 3.9.14

4 पञ्चाशत्

3.9.14 अनुवाकं 14 -तास्विष्टिषु ब्राह्मणराजन्ययोर्गानम्

3.9.14.1
अप॒ वा ए॒तस्मा॒च्छ्री रा॒ष्ट्रं क्रा॑मति । यो᳚ऽश्वमे॒धेन॒ यज॑ते । ब्रा॒ह्म॒णौ वी॑णागा॒थिनौ॑ गायतः । श्रि॒या वा ए॒तद् रू॒पम् । यद्वीणा᳚ । श्रिय॑-मे॒वास्मि॒-न्तद्ध॑त्तः । य॒दा खलु॒ वै पुरु॑षः॒ श्रिय॑मश्नु॒ते । वीणा᳚ऽस्मै वाद्यते ॥ तदा॑हुः । यदु॒भौ ब्रा᳚ह्म॒णौ गाये॑ताम्
कोर्वै (Index)
(गाये॑ताम् - क्रामेद् - ब्राह्म॒णस्य॑ - कल्पयतश्च॒त्वारि॑ च)
3.9.14.2
प्र॒भ्रꣳशु॑का-ऽस्मा॒च्छ्रीः स्या᳚त् । न वै ब्रा᳚ह्म॒णे श्री र॑मत॒ इति॑ । ब्रा॒ह्म॒णो᳚ऽन्यो गाये᳚त् । रा॒ज॒न्यो᳚ऽन्यः । ब्रह्म॒ वै ब्रा᳚ह्म॒णः । क्ष॒त्रꣳ रा॑ज॒न्यः॑ । तथा॑ हास्य॒ ब्रह्म॑णा च क्ष॒त्रेण॑ चोभ॒यतः॒ श्रीः परि॑गृहीता भवति ॥ तदा॑हुः । यदु॒भौ दिवा॒ गाये॑ताम् । अपा᳚स्माद् रा॒॒ष्ट्रं क्रा॑मेत्
कोर्वै (Index)
(गाये॑ताम् - क्रामेद् - ब्राह्म॒णस्य॑ - कल्पयतश्च॒त्वारि॑ च)
3.9.14.3
न वै ब्रा᳚ह्म॒णे रा॒ष्ट्रꣳ र॑मत॒ इति॑ । य॒दा खलु॒ वै राजा॑ का॒मय॑ते । अथ॑ ब्राह्म॒णं जि॑नाति । दिवा᳚ ब्राह्म॒णो गा॑येत् । नक्तꣳ॑ राज॒न्यः॑ । ब्रह्म॑णो॒ वै रू॒पमहः॑ । क्ष॒त्रस्य॒ रात्रिः॑ । तथा॑ हास्य॒ ब्रह्म॑णा च क्ष॒त्रेण॑ चोभ॒यतो॑ रा॒ष्ट्रं परि॑गृहीतं भवति ॥ इत्य॑ददा॒ इत्य॑यजथा॒ इत्य॑पच॒ इति॑ ब्राह्म॒णो गाये᳚त् । इ॒ष्टा॒पू॒र्तं ॅवै ब्रा᳚ह्म॒णस्य॑
कोर्वै (Index)
(गाये॑ताम् - क्रामेद् - ब्राह्म॒णस्य॑ - कल्पयतश्च॒त्वारि॑ च)
3.9.14.4
इ॒ष्टा॒पू॒र्ते-नै॒वैनꣳ॒॒ स सम॑द्र्धयति ॥ इत्य॑जिना॒ इत्य॑युद्ध्यथा॒ इत्य॒मुꣳ स॑ग्रां॒म-म॑ह॒न्निति॑ राज॒न्यः॑ । यु॒द्धं ॅवै रा॑ज॒न्य॑स्य । यु॒द्धेनै॒वैनꣳ॒॒ स सम॑द्र्धयति ॥ अक्लृ॑प्ता॒ वा ए॒तस्य॒र्तव॒ इत्या॑हुः । यो᳚ऽश्वमे॒धेन॒ यज॑त॒ इति॑ । ति॒स्रो᳚ऽन्यो गाय॑ति ति॒स्रो᳚ऽन्यः । षट्थ्संप॑द्यन्ते । षड्वा ऋ॒तवः॑ । ऋ॒तूने॒वास्मै॑ कल्पयतः ( ) ॥ ताभ्याꣳ॑ सꣳ॒॒स्थाया᳚म् । अ॒नो॒यु॒क्ते च॑ श॒ते च॑ ददाति । श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ।
कोर्वै (Index)
(गाये॑ताम् - क्रामेद् - ब्राह्म॒णस्य॑ - कल्पयतश्च॒त्वारि॑ च)