TB 3.9.16

4 पञ्चाशत्

3.9.16 अनुवाकं 16 -उपाकरणमन्त्रव्याख्यानादिः

3.9.16.1
वा॒रु॒णो वा अश्वः॑ । तं दे॒वत॑या॒ व्य॑द्र्धयति । यत्प्रा॑जाप॒त्यं क॒रोति॑ । नमो॒ राज्ञे॒ नमो॒ वरु॑णा॒येत्या॑ह । वा॒रु॒णो वा अश्वः॑ । स्वयै॒वैनं॑ दे॒वत॑या॒ सम॑द्र्धयति ॥ नमोऽश्वा॑य॒ नमः॑ प्र॒जाप॑तय॒ इत्या॑ह । प्रा॒जा॒प॒त्यो वा अश्वः॑ । स्वयै॒वैनं॑ दे॒वत॑या॒ सम॑द्र्धयति ॥ नमोऽधि॑पतय॒ इत्या॑ह
कोर्वै (Index)
(अधि॑पतय॒ इत्या॑ - हा॒भिजि॑त्या - ऐन्द्रा॒ग्नो भव॑ति - रुन्ध॒ एकं॑ च)
3.9.16.2
धर्मो॒ वा अधि॑पतिः । धर्म॑मे॒वा-व॑रुन्धे ॥ अधि॑पति-र॒स्यधि॑पतिं मा कु॒र्वधि॑पतिर॒हं प्र॒जानां᳚ भूयास॒-मित्या॑ह । अधि॑पति-म॒वैनꣳ॑ समा॒नानां᳚ करोति ॥ मां ध॑हि॒ मयि॑ ध॒हीत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते ॥ उ॒पाकृ॑ताय॒ स्वाहेत्यु॒पाकृ॑ते जुहोति । आल॑ब्धाय॒ स्वाहेति॒ नियु॑क्ते जुहोति । हु॒ताय॒ स्वाहेति॑ हु॒ते जु॑होति । ए॒षां ॅलो॒काना॑-म॒भिजि॑त्यै ।
कोर्वै (Index)
(अधि॑पतय॒ इत्या॑ - हा॒भिजि॑त्या - ऐन्द्रा॒ग्नो भव॑ति - रुन्ध॒ एकं॑ च)
3.9.16.3
प्र वा ए॒ष ए॒भ्यो लो॒केभ्य॑श्च्यवते । यो᳚ऽश्वमे॒धेन॒ यज॑ते । आ॒ग्ने॒य-मै᳚न्द्रा॒ग्न-मा᳚श्वि॒नम् । तान् प॒शूनाल॑भते॒ प्रति॑ष्ठित्यै ॥ यदा᳚ऽग्ने॒यो भव॑ति । अ॒ग्निः सर्वा॑ दे॒वताः᳚ । दे॒वता॑ ए॒वाव॑रुन्धे ॥ ब्रह्म॒ वा अ॒ग्निः । क्ष॒त्रमिन्द्रः॑ । यदै᳚न्द्रा॒ग्नो भव॑ति
कोर्वै (Index)
(अधि॑पतय॒ इत्या॑ - हा॒भिजि॑त्या - ऐन्द्रा॒ग्नो भव॑ति - रुन्ध॒ एकं॑ च)
3.9.16.4
ब्र॒ह्म॒क्ष॒त्रे ए॒वाव॑रुन्धे ॥ यदा᳚ऽश्वि॒नो भव॑ति । आ॒शिषा॒मव॑रुद्ध्यै ॥ त्रयो॑ भवन्ति । त्रय॑ इ॒मे लो॒काः । ए॒ष्वे॑व लो॒केषु॒ प्रति॑तिष्ठति ॥ अ॒ग्नये-ऽꣳ॑हो॒मुचे॒-ऽष्टाक॑पाल॒ इति॒ दश॑हविष॒मिष्टिं॒ निर्व॑पति । दशा᳚क्षरा वि॒राट् । अन्नं॑ ॅवि॒राट् । वि॒राजै॒-वान्नाद्य॒-मव॑रुन्धे ( ) ॥ अ॒ग्नेर्म॑न्वे प्रथ॒मस्य॒ प्रचे॑तस॒ इति॑ याज्यानुवा॒क्या॑ भवन्ति सर्व॒त्वाय॑ ।
कोर्वै (Index)
(अधि॑पतय॒ इत्या॑ - हा॒भिजि॑त्या - ऐन्द्रा॒ग्नो भव॑ति - रुन्ध॒ एकं॑ च)