TB 3.9.22

4 पञ्चाशत्

3.9.22 अनुवाकं 22 -ऋषभालम्भः

3.9.22.1
प्र॒जाप॑तिं॒ ॅवै दे॒वाः पि॒तर᳚म् । प॒शुं भू॒तं मेधा॒याल॑भन्त । तमा॒लभ्योपा॑वसन्न् । प्रा॒तर्यष्टा᳚स्मह॒ इति॑ । एकं॒ ॅवा ए॒तद्दे॒वाना॒महः॑ । यथ्स॑म्ॅवथ्स॒रः । तस्मा॒दश्वः॑ पु॒रस्ता᳚-थ्सम्ॅवथ्स॒र आल॑भ्यते ॥ यत्प्र॒जाप॑ति॒-राल॒ब्धो-ऽश्वोऽभ॑वत् । तस्मा॒दश्वः॑ । यथ्स॒द्यो मेधोऽभ॑वत्
कोर्वै (Index)
(मेधोऽभ॑व॒द् - यज॑त - एति॒ - वेद॑)
3.9.22.2
तस्मा॑दश्वमे॒धः ॥ वेदु॒को-ऽश्व॑मा॒शुं भ॑वति । य ए॒वं वेद॑ ॥ यद्वै तत्प्र॒जाप॑ति॒-राल॒ब्धो-ऽश्वोऽभ॑वत् । तस्मा॒दश्वः॑ प्र॒जाप॑तेः पशू॒ना-मनु॑रूपतमः ॥ आऽस्य॑ पु॒त्रः प्रति॑रूपो जायते । य ए॒वं ॅवेद॑ ॥ सर्वा॑णि भू॒तानि॑ स॒भृंत्याल॑भते । समे॑नं दे॒वा-स्तेज॑से ब्रह्मवर्च॒साय॑ भरन्ति । यो᳚ऽश्वमे॒धेन॒ यज॑ते
कोर्वै (Index)
(मेधोऽभ॑व॒द् - यज॑त - एति॒ - वेद॑)
3.9.22.3
य उ॑ चैनमे॒वं ॅवेद॑ ॥ ए॒तद्वै तद्दे॒वा ए॒तां दे॒वता᳚म् । प॒शुं भू॒तं मेधा॒याल॑भन्त । य॒ज्ञ्म॒व । य॒ज्ञेन॑ य॒ज्ञ्म॑यजन्त दे॒वाः । का॒म॒प्रं य॒ज्ञ्म॑ कुर्वत । ते॑ऽमृत॒त्वम॑कामयन्त । त॑ऽमृत॒त्व-म॑गच्छन्न् ॥ यो᳚ऽश्वमे॒धेन॒ यज॑ते । दे॒वाना॑मे॒वा-य॑नेनैति
कोर्वै (Index)
(मेधोऽभ॑व॒द् - यज॑त - एति॒ - वेद॑)
3.9.22.4
प्रा॒जा॒प॒त्येनै॒व य॒ज्ञेन॑ यजते काम॒प्रेण॑ । अपु॑नर्मारमे॒व ग॑च्छति ॥ ए॒तस्य॒ वै रू॒पेण॑ पु॒रस्ता᳚-त्प्राजाप॒त्य-मृ॑ष॒भं तू॑प॒रंब॑हुरू॒प-माल॑भते । सर्वे᳚भ्यः॒ कामे᳚भ्यः । सर्व॒स्याप्त्यै᳚ । सर्व॑स्य॒ जित्यै᳚ ॥ सर्व॑मे॒व तेना᳚प्नोति । सर्वं॑ जयति । यो᳚ऽश्वमे॒धेन॒ यज॑ते । य उ॑ चैनमे॒वं ॅवेद॑ ( ) ।
कोर्वै (Index)
(मेधोऽभ॑व॒द् - यज॑त - एति॒ - वेद॑)