TB 3.9.5

5 पञ्चाशत्

3.9.5 अनुवाकं 5 -ब्रह्मोद्यनामकः होतृब्राह्मणोस्संवादः

3.9.5.1
तेज॑सा॒ वा ए॒ष ब्र॑ह्मवर्च॒सेन॒ व्यृ॑द्ध्यते । यो᳚-ऽश्वमे॒धेन॒ यज॑ते । होता॑ च ब्र॒ह्मा च॑ ब्र॒ह्मोद्यं॑ ॅवदतः । तेज॑सा चै॒वैनं॑ ब्रह्मवर्च॒सेन॑ च॒ सम॑द्र्धयतः ॥ द॒क्षि॒ण॒तो ब्र॒ह्मा भ॑वति । द॒क्षि॒ण॒त आ॑यतनो॒ वै ब्र॒ह्मा । बा॒र्॒.ह॒स्प॒त्यो वै ब्र॒ह्मा । ब्र॒ह्म॒व॒र्च॒समे॒वास्य॑ दक्षिण॒तो (दक्षि॒णतो) द॑धाति । तस्मा॒द्-दक्षि॒णोऽद्र्धो᳚ ब्रह्मवर्च॒सित॑रः ॥ उ॒त्त॒र॒तो होता॑ भवति
कोर्वै (Index)
(होता॑ भवति॒ - वै वृष्टिः॑ पू॒र्वचि॑त्ति - र॒न्नाद्य॑मे॒वाव॑रुन्धे - म॒हदित्या॑ह॒ - सोमो॒ वै वृष्णो॒ अश्व॑स्य॒ रेत॑श्च॒त्वारि॑ च)
3.9.5.2
उ॒त्त॒र॒त आ॑यतनो॒ वै होता᳚ । आ॒ग्ने॒यो वै होता᳚ । तेजो॒ वा अ॒ग्निः । तेज॑ ए॒वास्यो᳚त्तर॒तो द॑धाति । तस्मा॒दुत्त॒रोऽद्र्ध॑-स्तेज॒स्वित॑रः ॥ यूप॑म॒भितो॑ वदतः । य॒ज॒मा॒न॒दे॒व॒त्यो॑ वै यूपः॑ । यज॑मानमे॒व तेज॑सा च ब्रह्मवर्च॒सेन॑ च॒ सम॑द्र्धयतः ॥ किꣳ स्वि॑दासीत्-पू॒र्वचि॑त्ति॒-रित्या॑ह । द्यौर्वै वृष्टिः॑ पू॒र्वचि॑त्तिः
कोर्वै (Index)
(होता॑ भवति॒ - वै वृष्टिः॑ पू॒र्वचि॑त्ति - र॒न्नाद्य॑मे॒वाव॑रुन्धे - म॒हदित्या॑ह॒ - सोमो॒ वै वृष्णो॒ अश्व॑स्य॒ रेत॑श्च॒त्वारि॑ च)
3.9.5.3
दिव॑मे॒व वृष्टि॒मव॑रुन्धे ॥ किꣳ स्वि॑दासीद्-बृ॒हद्वय॒ इत्या॑ह । अश्वो॒ वै बृ॒हद्वयः॑ । अश्व॑मे॒वाव॑रुन्धे ॥ किꣳ स्वि॑दासीत्-पिशङ्गि॒लेत्या॑ह । रात्रि॒र्वै पि॑शङ्गि॒ला । रात्रि॑मे॒वाव॑रुन्धे ॥ किꣳ स्वि॑दासीत्-पिलिप्पि॒लेत्या॑ह । श्रीर्वै पि॑लिप्पि॒ला । अ॒न्नाद्य॑मे॒वाव॑रुन्धे ।
कोर्वै (Index)
(होता॑ भवति॒ - वै वृष्टिः॑ पू॒र्वचि॑त्ति - र॒न्नाद्य॑मे॒वाव॑रुन्धे - म॒हदित्या॑ह॒ - सोमो॒ वै वृष्णो॒ अश्व॑स्य॒ रेत॑श्च॒त्वारि॑ च)
3.9.5.4
कः स्वि॑देका॒की च॑र॒तीत्या॑ह । अ॒सौ वा आ॑दि॒त्य ए॑का॒की च॑रति । तेज॑ ए॒वाव॑रुन्धे ॥ क उ॑ स्विज्जायते॒ पुन॒रित्या॑ह । च॒न्द्रमा॒ वै जा॑यते॒ पुनः॑ । आयु॑रे॒वाव॑रुन्धे ॥ किꣳ स्वि॑द्धि॒मस्य॑ भेष॒जमित्या॑ह । अ॒ग्निर्वै हि॒मस्य॑ भेष॒जम् । ब्र॒ह्म॒व॒र्च॒समे॒वाव॑रुन्धे ॥ किꣳ स्वि॑दा॒-वप॑नं म॒हदित्या॑ह
कोर्वै (Index)
(होता॑ भवति॒ - वै वृष्टिः॑ पू॒र्वचि॑त्ति - र॒न्नाद्य॑मे॒वाव॑रुन्धे - म॒हदित्या॑ह॒ - सोमो॒ वै वृष्णो॒ अश्व॑स्य॒ रेत॑श्च॒त्वारि॑ च)
3.9.5.5
अ॒यं ॅवै लो॒क आ॒वप॑नं म॒हत् । अ॒स्मिन्ने॒व लो॒के प्रति॑तिष्ठति ॥ पृ॒च्छामि॑ त्वा॒ पर॒मन्तं॑ पृथि॒व्या इत्या॑ह । वेदि॒र्वै परोऽन्तः॑ पृथि॒व्याः । वेदि॑मे॒वाव॑रुन्धे ॥ पृ॒च्छामि॑ त्वा॒ भुव॑नस्य॒ नाभि॒मित्या॑ह । य॒ज्ञो वै भुव॑नस्य॒ नाभिः॑ । य॒ज्ञ्मे॒वाव॑रुन्धे ॥ पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेत॒ इत्या॑ह । सोमो॒ वै वृष्णो॒ अश्व॑स्य॒ रेतः॑ ( ) । सो॒म॒पी॒थ-मे॒वाव॑रुन्धे ॥ पृ॒च्छामि॑ वा॒चः प॑र॒मं ॅव्यो॑मेत्या॑ह । ब्रह्म॒ वै वा॒चः प॑र॒मं ॅव्यो॑म । ब्र॒ह्म॒व॒र्च॒स-मे॒वाव॑रुन्धे ।
कोर्वै (Index)
(होता॑ भवति॒ - वै वृष्टिः॑ पू॒र्वचि॑त्ति - र॒न्नाद्य॑मे॒वाव॑रुन्धे - म॒हदित्या॑ह॒ - सोमो॒ वै वृष्णो॒ अश्व॑स्य॒ रेत॑श्च॒त्वारि॑ च)