TB 3.9.11

4 पञ्चाशत्

3.9.11 अनुवाकं 11 -शरीरहोमाः स्विष्टकृदादयश्च

3.9.11.1
वै॒श्व॒दे॒वो वा अश्वः॑ । तं ॅयत्प्रा॑जाप॒त्यं कु॒र्यात् । या दे॒वता॒ अपि॑भागाः । ता भा॑ग॒धेये॑न॒ व्य॑द्र्धयेत् । दे॒वता᳚भ्यः स॒मदं॑ दद्ध्यात् । स्ते॒गान्-दꣳष्ट्रा᳚भ्यां म॒ण्डूका॒-ञ्जम्भ्ये॑-भि॒रिति॑ । आज्य॑-मव॒दानं॑ कृ॒त्वा प्रति॑सं॒ख्याय॒-माहु॑ती-र्जुहोति । या ए॒व दे॒वता॒ अपि॑भागाः । ता भा॑ग॒धेये॑न॒ सम॑द्र्धयति । न दे॒वता᳚भ्यः स॒मदं॑ दधाति ।
कोर्वै (Index)
(द॒धा॒ - त्यभ॑वन् - मन्यते - प्र॒जा अ॒न्तर् द॑धाति॒ द्वे च॑)
3.9.11.2
चतु॑र्दशै॒ता-न॑नुवा॒काञ्जु॑हो॒त्य-न॑न्तरित्यै ॥ प्र॒या॒साय॒ स्वाहेति॑ पञ्चद॒शम् । पञ्च॑दश॒ वा अ॑द्र्धमा॒सस्य॒ रात्र॑यः । अ॒द्र्ध॒मा॒स॒शः स॑म्ॅवथ्स॒र आ᳚प्यते ॥ दे॒वा॒सु॒राः सम्ॅयं॑त्ता आसन्न् । ते᳚ऽब्रुवन्न॒ग्नयः॑ स्विष्ट॒कृतः॑ । अश्व॑स्य॒ मेद्ध्य॑स्य व॒यमु॑द्धा॒र-मुद्ध॑रामहै । अथै॒तान॒भि-भ॑वा॒मेति॑ । ते लोहि॑त॒-मुद॑हरन्त । ततो॑ दे॒वा अभ॑वन्न्
कोर्वै (Index)
(द॒धा॒ - त्यभ॑वन् - मन्यते - प्र॒जा अ॒न्तर् द॑धाति॒ द्वे च॑)
3.9.11.3
पराऽसु॑राः । यथ्स्वि॑ष्ट॒कृद्भ्यो॒ लोहि॑तं जु॒होति॒ भ्रातृ॑व्याभिभूत्यै । भव॑त्या॒त्मना᳚ । परा᳚ऽस्य॒ भ्रातृ॑व्यो भवति ॥ गो॒मृ॒ग॒क॒ण्ठेन॑ प्रथ॒मा-माहु॑तिं जुहोति । प॒शवो॒ वै गो॑मृ॒गः । रु॒द्रो᳚ऽग्निः स्वि॑ष्ट॒कृत् । रु॒द्रादे॒व प॒शून॒न्तर्द॑धाति । अथो॒ यत्रै॒षा-ऽऽहु॑तिर्. हू॒यते᳚ । न तत्र॑ रु॒द्रः प॒शून॒भिम॑न्यते ।
कोर्वै (Index)
(द॒धा॒ - त्यभ॑वन् - मन्यते - प्र॒जा अ॒न्तर् द॑धाति॒ द्वे च॑)
3.9.11.4
अ॒श्व॒श॒फेन॑ द्वि॒तीया॒-माहु॑तिं जुहोति । प॒शवो॒ वा एक॑शफम् । रु॒द्रो᳚ऽग्निः स्वि॑ष्ट॒कृत् । रु॒द्रादे॒व प॒शून॒न्तर्द॑धाति । अथो॒ यत्रै॒षा-ऽऽहु॑तिर.ह॒यते᳚ । न तत्र॑ रु॒द्रः प॒शून॒भिम॑न्यते ॥ अ॒य॒स्मये॑न कम॒ण्डलु॑ना तृ॒तीया᳚म् । आहु॑तिं जुहोत्या-य॒स्यो॑ वै प्र॒जाः । रु॒द्रो᳚ऽग्निः स्वि॑ष्ट॒कृत् । रु॒द्रादे॒व प्र॒जा अ॒न्तर्द॑धाति ( ) । अथो॒ यत्रै॒षा-ऽऽहु॑तिर्. हू॒यते᳚ । न तत्र॑ रु॒द्रः प्र॒जा अ॒भिम॑न्यते ।
कोर्वै (Index)
(द॒धा॒ - त्यभ॑वन् - मन्यते - प्र॒जा अ॒न्तर् द॑धाति॒ द्वे च॑)