आ॒दि॒त्याश्चाङ्गि॑रसश्च सुव॒र्गे लो॒के᳚ऽस्पद्र्धन्त । तेऽङ्गि॑रस आदि॒त्येभ्यः॑ । अ॒मुमा॑दि॒त्य-मश्वꣳ॑ श्वे॒तं भू॒तं दक्षि॑णा-मनयन्न् । ते᳚ऽब्रुवन्न् । यं नोऽन᳚ष्ट । स वर्यो॑ऽभू॒दिति॑ । तस्मा॒दश्वꣳ॒॒ सव॒र्येत्या-ह्व॑यन्ति । तस्मा᳚द्य॒ज्ञे वरो॑ दीयते ॥ यत्प्र॒जाप॑ति॒-राल॒ब्धो-ऽश्वो-ऽभ॑वत् । तस्मा॒दश्वो॒ नाम॑ ।
कोर्वै (Index)
(नाम॑ - करोति॒ - सूर्यो॒ऽग्नेर्योनि॑रा॒यत॑नम् च॒त्वारि॑ च)