TB 3.9.17

5 पञ्चाशत्

3.9.17 अनुवाकं 17 -अश्वस्य रोगादिनिमित्तं प्रायश्चित्तम्

3.9.17.1
यद्यश्व॑मुप॒तप॑द्वि॒न्देत् । आ॒ग्ने॒य-म॒ष्टाक॑पालं॒ निर्व॑पेत् । सौ॒म्यं च॒रुम् । सा॒वि॒त्र-म॒ष्टाक॑पालम् ॥ यदा᳚ग्ने॒यो भव॑ति । अ॒ग्निः सर्वा॑ दे॒वताः᳚ । दे॒वता॑-भिरे॒वैनं॑ भिषज्यति ॥ यथ्सौ॒म्यो भव॑ति । सोमो॒ वा ओष॑धीनाꣳ॒॒ राजा᳚ । याभ्य॑ ए॒वैनं॑ ॅवि॒न्दति॑
कोर्वै (Index)
(वि॒न्द - त्यश्लो॑णो है॒व भ॑व - त्यधी॒या - दृ॑द्ध्यते॒ - गर्भै॑रे॒वैनꣳ॒॒ स सम॑द्र्धयति॒ द्वे च॑)
3.9.17.2
ताभि॑रे॒वैनं॑ भिषज्यति ॥ यथ्सा॑वि॒त्रो भव॑ति । स॒वि॒तृप्र॑सूत ए॒वैनं॑ भिषज्यति ॥ ए॒ताभि॑रे॒वैनं॑ दे॒वता॑भिर्-भिषज्यति । अ॒ग॒दो है॒व भ॑वति ॥ पौ॒ष्णं च॒रुं निर्व॑पेत् । यदि॑ श्लो॒णः स्यात् । पू॒षा वै श्लौण्य॑स्य भि॒षक् । स ए॒वैनं॑ भिषज्यति । अश्लो॑णो है॒व भ॑वति ।
कोर्वै (Index)
(वि॒न्द - त्यश्लो॑णो है॒व भ॑व - त्यधी॒या - दृ॑द्ध्यते॒ - गर्भै॑रे॒वैनꣳ॒॒ स सम॑द्र्धयति॒ द्वे च॑)
3.9.17.3
रौ॒द्रं च॒रुं निर्व॑पेत् । यदि॑ मह॒ती दे॒वता॑-ऽभि॒मन्ये॑त । ए॒त॒द्दे॒व॒त्यो॑ वा अश्वः॑ । स्वयै॒वैनं॑ दे॒वत॑या भिषज्यति । अ॒ग॒दो है॒व भ॑वति ॥ वै॒श्वा॒न॒रं द्वाद॑श-कपालं॒ निर्व॑पेन्मृगाख॒रे यदि॒ नागच्छे᳚त् । इ॒यं ॅवा अ॒ग्निर्वै᳚श्वान॒रः । इ॒यमे॒वैन॑-म॒र्चिभ्यां᳚ परि॒रोध॒मान॑यति । आ है॒व सुत्य॒मह॑-र्गच्छति ॥ यद्य॑धी॒यात्
कोर्वै (Index)
(वि॒न्द - त्यश्लो॑णो है॒व भ॑व - त्यधी॒या - दृ॑द्ध्यते॒ - गर्भै॑रे॒वैनꣳ॒॒ स सम॑द्र्धयति॒ द्वे च॑)
3.9.17.4
अ॒ग्नये-ऽꣳ॑हो॒मुचे॒ऽष्टाक॑पालः । सौ॒र्यं पयः॑ । वा॒य॒व्य॑ आज्य॑भागः ॥ यज॑मानो॒ वा अश्वः॑ । अꣳह॑सा॒ वा ए॒ष गृ॑ही॒तः । यस्याश्वो॒ मेधा॑य॒ प्रोक्षि॑तो॒-ऽद्ध्येति॑ । यदꣳ॑हो॒मुचे॑ नि॒र्वप॑ति । अꣳह॑स ए॒व तेन॑ मुच्यते ॥ यज॑मानो॒ वा अश्वः॑ । रेत॑सा॒ वा ए॒ष व्यृ॑द्ध्यते
कोर्वै (Index)
(वि॒न्द - त्यश्लो॑णो है॒व भ॑व - त्यधी॒या - दृ॑द्ध्यते॒ - गर्भै॑रे॒वैनꣳ॒॒ स सम॑द्र्धयति॒ द्वे च॑)
3.9.17.5
यस्याश्वो॒ मेधा॑य॒ प्रोक्षि॑तो॒-ऽद्ध्येति॑ । सौ॒र्यꣳ रेतः॑ । यथ्सौ॒र्यं पयो॒ भव॑ति । रेत॑सै॒वैनꣳ॒॒ स सम॑द्र्धयति ॥ यज॑मानो॒ वा अश्वः॑ । गर्भै॒र्वा ए॒ष व्यृ॑द्ध्यते । यस्याश्वो॒ मेधा॑य॒ प्रोक्षि॑तो॒-ऽद्ध्येति॑ । वा॒य॒व्या॑ गर्भाः᳚ । यद्वा॑य॒व्य॑ आज्य॑भागो॒ भव॑ति । गर्भै॑रे॒वैनꣳ॒॒ स सम॑द्र्धयति ( ) ॥ अथो॒ यस्यै॒षा-ऽश्व॑मे॒धे प्राय॑श्चित्तः क्रि॒यते᳚ । इ॒ष्ट्वा वसी॑यान् भवति ।
कोर्वै (Index)
(वि॒न्द - त्यश्लो॑णो है॒व भ॑व - त्यधी॒या - दृ॑द्ध्यते॒ - गर्भै॑रे॒वैनꣳ॒॒ स सम॑द्र्धयति॒ द्वे च॑)