ए॒ष वै वि॒भूर्नाम॑ य॒ज्ञ्ः । सर्वꣳ॑ ह॒ वै तत्र॑ वि॒भु भ॑वति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥ ए॒ष वै प्र॒भूर्नाम॑ य॒ज्ञ्ः । सर्वꣳ॑ ह॒ वै तत्र॑ प्र॒भु भ॑वति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥ ए॒ष वा ऊर्ज॑स्वा॒न्नाम॑ य॒ज्ञ्ः । सर्वꣳ॑ ह॒ वै तत्रोर्ज॑स्व-द्भवति । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥ ए॒ष वै पय॑स्वा॒न्नाम॑ य॒ज्ञ्ः
कोर्वै (Index)
(पय॑स्वा॒न्नाम॑ य॒ज्ञ्ः - प्रति॑ष्ठितं भवति॒ - यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते॒ षट्च॑)