TB 3.9.20

3 पञ्चाशत्

3.9.20 अनुवाकं 20 -अश्वसंज्ञ्पनप्रकारः

3.9.20.1
ता॒र्प्येणाश्वꣳ॒॒ संज्ञ्॑पयन्ति । य॒ज्ञो वै ता॒र्प्यम् । य॒ज्ञेनै॒वैनꣳ॒॒ सम॑द्र्धयन्ति ॥ या॒मेन॒ साम्ना᳚ प्रस्तो॒ता-ऽनूप॑तिष्ठते । य॒म॒लो॒क-मे॒वैनं॑ गमयति ॥ ता॒र्प्ये च॑ कृत्त्यधीवा॒से चाश्वꣳ॒॒ संज्ञ्॑पयन्ति । ए॒तद्वै प॑शू॒नाꣳ रू॒पम् । रू॒पेणै॒व प॒शूनव॑रुन्धे ॥ हि॒र॒ण्य॒क॒शि॒पु भ॑वति । तेज॒सो-ऽव॑रुद्ध्यै ।
कोर्वै (Index)
(अव॑रुद्ध्या - आप्नोत्य॒ -+ष्टौ च॑)
3.9.20.2
रु॒क्मो भ॑वति । सु॒व॒र्गस्य॑ लो॒कस्या-नु॑ख्यात्यै ॥ अश्वो॑ भवति । प्र॒जाप॑ते॒-राप्त्यै᳚ ॥ अ॒स्य वै लो॒कस्य॑ रू॒पं ता॒र्प्यम् । अ॒न्तरि॑क्षस्य कृत्त्यधीवा॒सः । दि॒वो हि॑रण्यकशि॒पु । आ॒दि॒त्यस्य॑ रु॒क्मः । प्र॒जाप॑ते॒रश्वः॑ । इ॒ममे॒व लो॒कं ता॒र्प्येणा᳚प्नोति ( )
कोर्वै (Index)
(अव॑रुद्ध्या - आप्नोत्य॒ -+ष्टौ च॑)
3.9.20.3
अ॒न्तरि॑क्षं कृत्यधीवा॒सेन॑ । दिवꣳ॑ हिरण्यकशि॒पुना᳚ । आ॒दि॒त्यꣳ रु॒क्मेण॑ । अश्वे॑नै॒व मेद्ध्ये॑न प्र॒जाप॑तेः॒ सायु॑ज्यꣳ सलो॒कता॑-माप्नोति ॥ ए॒तासा॑मे॒व दे॒वता॑नाꣳ॒॒ सायु॑ज्यम् । सा॒र्ष्टिताꣳ॑ समान लो॒कता॑माप्नोति । यो᳚ऽश्वमे॒धेन॒ यज॑ते । य उ॑ चैनमे॒वं ॅवेद॑ ।
कोर्वै (Index)
(अव॑रुद्ध्या - आप्नोत्य॒ -+ष्टौ च॑)