TB 3.9.12

3 पञ्चाशत्

3.9.12 अनुवाकं 12 -तदुभयहोममध्यवर्त्यश्चस्तोमीयहोमः

3.9.12.1
अश्व॑स्य॒ वा आल॑ब्धस्य॒ मेध॒ उद॑क्रामत् । तद॑श्वस्तो॒मीय॑-मभवत् । यद॑श्वस्तो॒मीयं॑ जु॒होति॑ । समे॑धमे॒वैन॒-माल॑भते ॥ आज्ये॑न जुहोति । मेधो॒ वा आज्य᳚म् । मेधो᳚ऽश्वस्तो॒मीय᳚म् । मेधे॑नै॒वास्मि॒न् मेधं॑ दधाति ॥ षटत्रꣳ॑शतं जुहोति । षटत्रꣳ॑शदक्षरा बृह॒ती
कोर्वै (Index)
(बृ॒ह॒ - त्य॑द्र्धयति - स्थापयति॒ पञ्च॑ च)
3.9.12.2
बार्.ह॑ताः प॒शवः॑ । सा प॑शू॒नां मात्रा᳚ । प॒शूने॒व मात्र॑या॒ सम॑द्र्धयति ॥ ता यद्भूय॑सीर्वा॒ कनी॑यसीर्वा जुहु॒यात् । प॒शून्मात्र॑या॒ व्य॑द्र्धयेत् । षटत्रꣳ॑शतं जुहोति । षटत्रꣳ॑शदक्षरा बृह॒ती । बार्.ह॑ताः प॒शवः॑ । सा प॑शू॒नां मात्रा᳚ । प॒शूने॒व मात्र॑या॒ सम॑द्र्धयति ।
कोर्वै (Index)
(बृ॒ह॒ - त्य॑द्र्धयति - स्थापयति॒ पञ्च॑ च)
3.9.12.3
अ॒श्व॒स्तो॒मीयꣳ॑ हु॒त्वा द्वि॒पदा॑ जुहोति । द्वि॒पाद्वै पुरु॑षो॒ द्विप्र॑तिष्ठः । तदे॑नं प्रति॒ष्ठया॒ सम॑द्र्धयति ॥ तदा॑हुः । अ॒श्व॒स्तो॒मीयं॒ पूर्वꣳ॑ होत॒व्या(3)न् द्वि॒पदा(3) इति॑ । अश्वो॒ वा अ॑श्वस्तो॒मीय᳚म् । पुरु॑षो द्वि॒पदाः᳚ । अ॒श्व॒स्तो॒मीयꣳ॑ हु॒त्वा द्वि॒पदा॑ जुहोति । तस्मा᳚द्-द्वि॒पाच्चतु॑ष्पादमत्ति । अथो᳚ द्वि॒पद्ये॒व चतु॑ष्पदः॒ प्रति॑ष्ठापयति ( ) ॥ द्वि॒पदा॑ हु॒त्वा । नान्यामुत्त॑रा॒-माहु॑तिं जुहुयात् । यद॒न्यामुत्त॑रा॒-माहु॑तिं जुहु॒यात् । प्र प्र॑ति॒ष्ठाया᳚श्च्यवेत । द्वि॒पदा॑ अन्त॒तो ज॑होति॒ प्रति॑ष्ठित्यै ।
कोर्वै (Index)
(बृ॒ह॒ - त्य॑द्र्धयति - स्थापयति॒ पञ्च॑ च)