यो वा अश्व॑स्य॒ मेद्ध्य॑स्य॒ लोम॑नी॒ वेद॑ । अश्व॑स्यै॒व मेद्ध्य॑स्य॒ लोमं॑ ॅलोमञ्जुहोति । अ॒हो॒रा॒त्रे वा अश्व॑स्य॒ मेद्ध्य॑स्य॒ लोम॑नी । यथ्सा॒यं प्रा॑तर्जु॒होति॑ । अश्व॑स्यै॒व मेद्ध्य॑स्य॒ लोमं॑ ॅलोमञ्जुहोति । ए॒तद॑नुकृति हस्म॒ वै पु॒रा । अश्व॑स्य॒ मेद्ध्य॑स्य॒ लोमं॑ ॅलोमञ्जुह्वति ॥ यो वा अश्व॑स्य॒ मेद्ध्य॑स्य प॒दे वेद॑ । अश्व॑स्यै॒व मेद्ध्य॑स्य प॒दे प॑दे जुहोति । द॒र्॒.श॒पू॒र्ण॒मा॒सौ वा अश्व॑स्य॒ मेद्ध्य॑स्य प॒दे
कोर्वै (Index)
(प॒दे - अ॑ग्निहो॒त्रं जु॒होति॒ त्रीणि॑ च)