TB 3.9.4

8 पञ्चाशत्

3.9.4 अनुवाकं 4 -अश्वस्य रथयोजनालंकारादयः

3.9.4.1
यु॒ञ्जन्ति॑ ब्र॒द्ध्नमित्या॑ह । अ॒सौ वा आ॑दि॒त्यो ब्र॒द्ध्नः । आ॒दि॒त्य-मे॒वास्मै॑ युनक्ति । अ॒रु॒षमित्या॑ह । अ॒ग्निर्वा अ॑रु॒षः । अ॒ग्निमे॒वास्मै॑ युनक्ति । चर॑न्त॒मित्या॑ह । वा॒युर्वै चरन्न्॑ । वा॒युमे॒वास्मै॑ युनक्ति । परि॑त॒स्थुष॒ इत्या॑ह
कोर्वै (Index)
(परि॑त॒स्थुष॒ इत्या॑हे॒ - मे ए॒वास्मै॑ युनक्त्य॒ - भिजि॑त्यै-भर-न्त्यश्वमे॒धो - रु॑न्धे - रू॒पम् - जि॑घ्रति॒ त्रीणि॑ च)
3.9.4.2
इ॒मे वै लो॒काः परि॑त॒स्थुषः॑ । इ॒मने॒वास्मै॑ लो॒कान्. यु॑नक्ति ॥ रोच॑न्ते रोच॒ना दि॒वीत्या॑ह । नक्ष॑त्राणि॒ वै रो॑च॒ना दि॒वि । नक्ष॑त्राण्ये॒वास्मै॑ रोचयति ॥ यु॒ञ्जन्त्य॑स्य॒ काम्येत्या॑ह । कामा॑ने॒वास्मै॑ युनक्ति ॥ हरी॒ विप॑क्ष॒सेत्या॑ह । इ॒मे वै हरी॒ विप॑क्षसा । इ॒मे ए॒वास्मै॑ युनक्ति ।
कोर्वै (Index)
(परि॑त॒स्थुष॒ इत्या॑हे॒ - मे ए॒वास्मै॑ युनक्त्य॒ - भिजि॑त्यै-भर-न्त्यश्वमे॒धो - रु॑न्धे - रू॒पम् - जि॑घ्रति॒ त्रीणि॑ च)
3.9.4.3
शोणा॑ धृ॒ष्णू नृ॒वाह॒सेत्या॑ह । अ॒हो॒रा॒त्रे वै नृ॒वाह॑सा । अ॒हो॒रा॒त्रे ए॒वास्मै॑ युनक्ति ॥ ए॒ता ए॒वास्मै॑ दे॒वता॑ युनक्ति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ के॒तुं कृ॒ण्वन्न॑-के॒तव॒ इति॑ द्ध्व॒जं प्रति॑मुञ्चति । यश॑ ए॒वैनꣳ॒॒ राज्ञां᳚ गमयति ॥ जी॒मूत॑स्येव भवति॒ प्रती॑क॒मित्या॑ह । य॒था॒ य॒जुरे॒वैतत् ॥ ये ते॒ पन्था॑नः सवितः पू॒र्व्यास॒ इत्य॑द्ध्व॒र्यु-र्यज॑मानं ॅवाचयत्य॒भिजि॑त्यै ।
कोर्वै (Index)
(परि॑त॒स्थुष॒ इत्या॑हे॒ - मे ए॒वास्मै॑ युनक्त्य॒ - भिजि॑त्यै-भर-न्त्यश्वमे॒धो - रु॑न्धे - रू॒पम् - जि॑घ्रति॒ त्रीणि॑ च)
3.9.4.4
परा॒ वा ए॒तस्य॑ य॒ज्ञ् ए॑ति । यस्य॑ प॒शुरु॒पा-कृ॑तो॒-ऽन्यत्र॒ वेद्या॒ एति॑ । एतꣳ स्तो॑तरे॒तेन॑ प॒था पुन॒रश्व॒-माव॑र्तयासि न॒ इत्या॑ह । वा॒युर्वै स्तोता᳚ । वा॒युमे॒वास्य॑ प॒रस्ता᳚द्-दधा॒त्यावृ॑त्त्यै ॥ यथा॒ वै ह॒विषो॑ गृही॒तस्य॒ स्कन्द॑ति । ए॒वं ॅवा ए॒तदश्व॑स्य स्कन्दति । यद॑स्यो॒पाकृ॑तस्य॒ लोमा॑नि॒ शीय॑न्ते । यद्वाले॑षु का॒चाना॒वय॑न्ति । लोमा᳚न्ये॒वास्य॒ तथ्संभ॑रन्ति ।
कोर्वै (Index)
(परि॑त॒स्थुष॒ इत्या॑हे॒ - मे ए॒वास्मै॑ युनक्त्य॒ - भिजि॑त्यै-भर-न्त्यश्वमे॒धो - रु॑न्धे - रू॒पम् - जि॑घ्रति॒ त्रीणि॑ च)
3.9.4.5
भूर्भुव॒स्सुव॒रिति॑ प्राजाप॒त्या-भि॒राव॑यन्ति । प्रा॒जा॒प॒त्यो वा अश्वः॑ । स्वयै॒वैनं॑ दे॒वत॑या॒ सम॑द्र्धयन्ति ॥ भूरिति॒ महि॑षी । भुव॒ इति॑ वा॒वाता᳚ । सुव॒रिति॑ परिवृ॒क्ती । ए॒षां ॅलो॒काना॑-म॒भिजि॑त्यै ॥ हि॒र॒ण्ययाः᳚ का॒चा भ॑वन्ति । ज्योति॒र्वै हिर॑ण्यम् । रा॒ष्ट्रम॑श्वमे॒धः
कोर्वै (Index)
(परि॑त॒स्थुष॒ इत्या॑हे॒ - मे ए॒वास्मै॑ युनक्त्य॒ - भिजि॑त्यै-भर-न्त्यश्वमे॒धो - रु॑न्धे - रू॒पम् - जि॑घ्रति॒ त्रीणि॑ च)
3.9.4.6
ज्योति॑श्चै॒वास्मै॑ रा॒ष्ट्रं च॑ स॒मीची॑ दधाति ॥ स॒हस्रं॑ भवन्ति । स॒हस्र॑ संमितः सुव॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्या॒-भिजि॑त्यै ॥ अप॒ वा ए॒तस्मा॒त्तेज॑ इन्द्रि॒यं प॒शवः॒ श्रीः क्रा॑मन्ति । यो᳚ऽश्वमे॒धेन॒ यज॑ते । वस॑वस्त्वा-ऽञ्जन्तु गाय॒त्रेण॒ छन्द॒सेति॒ महि॑ष्य॒भ्य॑नक्ति । तेजो॒ वा आज्य᳚म् । तेजो॑ गाय॒त्री । तेज॑सै॒वास्मै॒ तेजोऽव॑रुन्धे
कोर्वै (Index)
(परि॑त॒स्थुष॒ इत्या॑हे॒ - मे ए॒वास्मै॑ युनक्त्य॒ - भिजि॑त्यै-भर-न्त्यश्वमे॒धो - रु॑न्धे - रू॒पम् - जि॑घ्रति॒ त्रीणि॑ च)
3.9.4.7
रु॒द्रास्त्वा᳚-ऽञ्जन्तु॒ त्रैष्टु॑भेन॒ छन्द॒सेति॑ वा॒वाता᳚ । तेजो॒ वा आज्य᳚म् । इ॒न्द्रि॒यं त्रि॒ष्टुप् । तेज॑सै॒वास्मा॑ इन्द्रि॒यमव॑रुन्धे । आ॒दि॒त्या-स्त्वा᳚-ऽञ्जन्तु॒ जाग॑तेन॒ छन्द॒सेति॑ परिवृ॒क्ती । तेजो॒ वा आज्य᳚म् । प॒शवो॒ जग॑ती । तेज॑सै॒वास्मै॑ प॒शूनव॑रुन्धे ॥ पत्न॑यो॒-ऽभ्य॑ञ्जन्ति । श्रि॒या वा ए॒तद् रू॒पम्
कोर्वै (Index)
(परि॑त॒स्थुष॒ इत्या॑हे॒ - मे ए॒वास्मै॑ युनक्त्य॒ - भिजि॑त्यै-भर-न्त्यश्वमे॒धो - रु॑न्धे - रू॒पम् - जि॑घ्रति॒ त्रीणि॑ च)
3.9.4.8
यत्पत्न॑यः । श्रिय॑-मे॒वास्मि॒न् तद्द॑धति । नास्मा॒त्तेज॑ इन्द्रि॒यं प॒शवः॒ श्रीरप॑क्रामन्ति ॥ लाजी(3)ञ्छाची(3)न्. यशो॑ म॒माॅ(4) इत्यति॑रिक्त॒-मन्न॒मश्वा॑यो॒ पाह॑रन्ति । प्र॒जामे॒वान्ना॒दीं कु॑र्वते ॥ ए॒तद्दे॑वा॒ अन्न॑मत्तै॒त-दन्न॑मद्धि प्रजापत॒ इत्या॑ह । प्र॒जाया॑मे॒वान्नाद्यं॑ दधते ॥ यदि॒ नाव॒जिघ्र᳚त् । अ॒ग्निः प॒शुरा॑सी॒दित्यव॑-घ्रापयेत् । अव॑ है॒व जि॑घ्रति ( ) ॥ आक्रान॑. वा॒जी क्रमै॒रत्य॑-क्रमीद्वा॒जी द्यौस्ते॑ पृ॒ष्ठं पृ॑थि॒वी स॒धस्थ॒मित्यश्व॒-मनु॑मन्त्रयते । ए॒षां ॅलो॒काना॑-म॒भिजि॑त्यै ॥ समि॑द्धो अ॒ञ्जन्कृद॑रं मती॒ना-मित्यश्व॑स्या॒ प्रियो॑ भवन्ति सरूप॒त्वाय॑ ।
कोर्वै (Index)
(परि॑त॒स्थुष॒ इत्या॑हे॒ - मे ए॒वास्मै॑ युनक्त्य॒ - भिजि॑त्यै-भर-न्त्यश्वमे॒धो - रु॑न्धे - रू॒पम् - जि॑घ्रति॒ त्रीणि॑ च)