TB 3.9.8

3 पञ्चाशत्

3.9.8 अनुवाकं 8 -अश्वमेधस्य तत्पशूनां च प्रशंसा

3.9.8.1
प्र॒जाप॑तिः प्र॒जाः सृ॒ष्ट्वा प्रे॒णाऽनु॒ प्रावि॑शत् । ताभ्यः॒ पुनः॒ संभ॑वितुं॒ नाश॑क्नोत् । सो᳚ऽब्रवीत् । ऋ॒द्ध्नव॒दिथ्सः । यो मे॒तः पुनः॑ स॒भंर॒दिति॑ । तं दे॒वा अ॑श्वमे॒धेनै॒व सम॑भरन्न् । ततो॒ वै त आ᳚द्र्ध्नुवन्न । यो᳚ऽश्वमे॒धेन॒ यज॑ते । प्र॒जाप॑तिमे॒व संभ॑रत्यृ॒द्ध्नोति॑ ॥ पुरु॑ष॒माल॑भते
कोर्वै (Index)
(ल॒भ॒ते॒ - गामाल॑भते - पर॒मो᳚ऽष्टौ च॑)
3.9.8.2
वै॒रा॒जो वै पुरु॑षः । वि॒राज॑-मे॒वाल॑भते । अथो॒ अन्नं॒ ॅवै वि॒राट् । अन्न॑मे॒वाव॑रुन्धे ॥ अश्व॒माल॑भते । प्रा॒जा॒प॒त्यो वा अश्वः॑ । प्र॒जाप॑ति-मे॒वाल॑भते । अथो॒ श्रीर्वा एक॑शफम् । श्रिय॑-मे॒वाव॑रुन्धे ॥ गामाल॑भते
कोर्वै (Index)
(ल॒भ॒ते॒ - गामाल॑भते - पर॒मो᳚ऽष्टौ च॑)
3.9.8.3
य॒ज्ञो वै गौः । य॒ज्ञ्मे॒वाल॑भते । अथो॒ अन्नं॒ ॅवै गौः । अन्न॑मे॒वाव॑रुन्धे ॥ अ॒जा॒वी आल॑भते भू॒म्ने । अथो॒ पुष्टि॒र्वै भू॒मा । पुष्टि॑मे॒वाव॑रुन्धे ॥ पर्य॑ग्निकृतं॒ पुरु॑षं चार॒ण्याꣳ-श्चोथ् सृ॑ज॒न्त्यहिꣳ॑सायै ॥ उ॒भौ वा ए॒तौ प॒शू आल॑भ्येते । यश्चा॑व॒मो यश्च॑ पर॒मः ( ) । ते᳚ऽस्यो॒भये॑ य॒ज्ञे ब॒द्धाः । अ॒भीष्टा॑ अ॒भिप्री॑ताः । अ॒भिजि॑ता अ॒भिहु॑ता भवन्ति ॥ नैनं॑ द॒ङ्क्ष्णवः॑ प॒शवो॑ य॒ज्ञे ब॒द्धाः । अ॒भीष्टा॑ अ॒भिप्री॑ताः । अ॒भिजि॑ता अ॒भिहु॑ता हिꣳसन्ति । यो᳚ऽश्वमे॒धेन॒ यज॑ते । य उ॑ चैनमे॒वं ॅवेद॑ ।
कोर्वै (Index)
(ल॒भ॒ते॒ - गामाल॑भते - पर॒मो᳚ऽष्टौ च॑)