सा॒ग्रं॒ह॒ण्येष्ट्या॑ यजते । इ॒मां ज॒नताꣳ॒॒ संग॑ह्णा॒नीति॑ ॥ द्वाद॑शारत्नी रश॒ना भ॑वति । द्वाद॑श॒ मासाः᳚ सम्ॅवथ्स॒रः । स॒म्ॅव॒थ्स॒रमे॒वा व॑रुन्धे । मौ॒ञ्जी भ॑वति । ऊर्ग्वै मुञ्जाः᳚ । ऊर्ज॑मे॒ वा व॑रुन्धे ॥ चि॒त्रा नक्ष॑त्रं भवति । चि॒त्रं ॅवा ए॒तत्कर्म॑ । 1(10) ट्.भ्.3.8.1.2 यद॑श्वमे॒धः समृ॑द्ध्यै ॥ पुण्य॑नाम देव॒यज॑न-म॒द्ध्यव॑स्यति । पुण्या॑मे॒व तेन॑ की॒र्तिम॒भिज॑यति ॥ अप॑दाती-नृ॒त्विजः॑ स॒माव॑ह॒न्त्या सु॑ब्रह्म॒ण्यायाः᳚ । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ के॒श॒श्म॒श्रु व॑पते । न॒खानि॒ निकृ॑न्तते । द॒तो धा॑वते । स्नाति॑ । अह॑तं॒ ॅवासः॒ परि॑धत्ते ( ) । पा॒प्मनोऽप॑हत्यै । वाचं॑ ॅय॒त्वोप॑वसति । सु॒व॒र्गस्य॑ लो॒कस्य॒ गुप्त्यै᳚ । रात्रिं॑ जाग॒रय॑न्त आसते । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
कोर्वै (Index)
(कर्म॑ - धत्ते॒ पञ्च॑ च)