TB 3.8.22

3 पञ्चाशत्

3.8.22 अनुवाकं 22 -उक्थ्याख्ये द्वितीयेऽहनि बहिष्पवमाने अश्वस्योद्रातृत्वम्

3.8.22.1
दे॒वा वा अ॑श्वमे॒धे पव॑माने । सु॒व॒र्गं ॅलो॒कं न प्राजा॑नन्न् । तमश्वः॒ प्राजा॑नात् । यद॑श्वम॒धे-ऽश्वे॑न॒ मेद्ध्ये॒नोद॑ञ्चो बहिष्पवमा॒नꣳ सर्प॑न्ति । सु॒व॒र्गस्य॑ लो॒कस्य॒ प्रज्ञा᳚त्यै । न वै म॑नु॒ष्यः॑ सुव॒र्गं लो॒कमञ्ज॑सा वेद । अश्वो॒ वै सु॑व॒र्गं ॅलो॒कमञ्ज॑सा वेद ॥ यदु॑द्गा॒-तोद्गाये᳚त् । यथाऽक्षे᳚त्रज्ञो॒ऽन्येन॑ प॒था प्र॑तिपा॒दये᳚त् । ता॒दृक्तत्
कोर्वै (Index)
(तथ् - स - उ॒पाक॑रोति च॒त्वारि॑ च)
3.8.22.2
उ॒द्गा॒तार॑-मप॒रुद्ध्य॑ । अश्व॑-मुद्गी॒थाय॑ वृणीते । यथा᳚ क्षेत्र॒ज्ञो-ऽञ्ज॑सा॒ नय॑ति । ए॒वमे॒वैन॒मश्वः॑ सुव॒र्गं ॅलो॒कमञ्ज॑सा नयति ॥ पुच्छ॑म॒न्वार॑भन्ते । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ हिं क॑रोति । सामै॒वाकः॑ । हिं क॑रोति । उ॒द्गी॒थ ए॒वास्य॒ सः ।
कोर्वै (Index)
(तथ् - स - उ॒पाक॑रोति च॒त्वारि॑ च)
3.8.22.3
वड॑बा॒ उप॑ रुन्धन्ति । मि॒थु॒न॒त्वाय॒ प्रजा᳚त्यै । अथो॒ यथो॑पगा॒तार॑ उप॒गाय॑न्ति । ता॒दृगे॒व तत् ॥ उद॑गासी॒दश्वो॒ मेद्ध्य॒ इत्या॑ह । प्रा॒जा॒प॒त्यो वा अश्वः॑ । प्र॒जाप॑ति-रुद्गी॒थः । उ॒द्गी॒थमे॒वाव॑रुन्धे । अथो॑ ऋख्सा॒मयो॑रे॒व प्रति॑तिष्ठति ॥ हिर॑ण्येनो॒पाक॑रोति ( ) । ज्योति॒र्वै हिर॑ण्यम् । ज्योति॑रे॒व मु॑ख॒तो द॑धाति । यज॑माने च प्र॒जासु॑ च । अथो॒ हिर॑ण्यज्योतिरे॒व यज॑मानः सुव॒र्गं ॅलो॒कमे॑ति ।
कोर्वै (Index)
(तथ् - स - उ॒पाक॑रोति च॒त्वारि॑ च)