TB 3.8.10

5 पञ्चाशत्

3.8.10 अनुवाकं 10 -दीक्षाभिधानम् तत्र वैश्वदेवहोमः

3.8.10.1
प्र॒जाप॑ति-रकामयताश्वमे॒धेन॑ यजे॒येति॑ । स तपो॑ऽतप्यत । तस्य॑ तेपा॒नस्य॑ । स॒प्तात्मनो॑ दे॒वता॒ उद॑क्रामन्न् । सा दी॒क्षा-ऽभ॑वत् । स ए॒तानि॑ वैश्वदे॒वान्य॑पश्यत् । तान्य॑ जुहोत् । तैर्वै स दी॒क्षामवा॑रुन्ध । यद्वै᳚श्व दे॒वानि॑ जु॒होति॑ । दी॒क्षामे॒व-तैर्यज॑मा॒नो-ऽव॑रुन्धे ।
कोर्वै (Index)
(रु॒न्धे॒ - प्रा॒णान् दी॒क्षामव॑रुन्ध - उच्यते - क्रामन्ति - तिष्ठति)
3.8.10.2
स॒प्त जु॑होति । स॒प्त हि ता दे॒वता॑ उ॒दक्रा॑मन्न् ॥ अ॒न्व॒हं जु॑होति । अ॒न्व॒हमे॒व दी॒क्षामव॑रुन्धे ॥ त्रीणि॑ वैश्वदे॒वानि॑ जुहोति । च॒त्वार्यौ᳚द्ग्रह॒णानि॑ । स॒प्त संप॑द्यन्ते । स॒प्त वै शी॑र.ष॒ण्याः᳚ प्रा॒णाः । प्रा॒णा दी॒क्षा । प्रा॒णैरे॒व प्रा॒णान्दी॒क्षामव॑रुन्धे ।
कोर्वै (Index)
(रु॒न्धे॒ - प्रा॒णान् दी॒क्षामव॑रुन्ध - उच्यते - क्रामन्ति - तिष्ठति)
3.8.10.3
एक॑विꣳशतिं ॅवैश्वदे॒वानि॑ जुहोति । एक॑विꣳशति॒र्वै दे॑वलो॒काः । द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॑ । त्रय॑ इ॒मे लो॒काः । अ॒सावा॑दि॒त्य ए॑कविꣳ॒॒शः ॥ ए॒ष सु॑व॒र्गो लो॒कः । तद्दैव्यं॑ क्ष॒त्त्रम् । सा श्रीः । तद्ब्र॒द्ध्नस्य॑ वि॒ष्टप᳚म् । तथ्स्वारा᳚ज्य-मुच्यते ।
कोर्वै (Index)
(रु॒न्धे॒ - प्रा॒णान् दी॒क्षामव॑रुन्ध - उच्यते - क्रामन्ति - तिष्ठति)
3.8.10.4
त्रिꣳ॒॒शत॑मौद्ग्रह॒णानि॑ जुहोति । त्रिꣳ॒॒शद॑क्षरा वि॒राट् । अन्नं॑ ॅवि॒राट् । वि॒राजै॒वान्नाद्य॒मव॑रुन्धे ॥ त्रे॒धा वि॒भज्य॑ दे॒वतां᳚ जुहोति । त्र्या॑वृतो॒ वै दे॒वाः । त्र्या॑वृत इ॒मे लो॒काः । ए॒षां ॅलो॒काना॒माप्त्यै᳚ । ए॒षां ॅलो॒कानां॒ क्लृप्त्यै᳚ ॥ अप॒ वा ए॒तस्मा᳚त्प्रा॒णाः क्रा॑मन्ति
कोर्वै (Index)
(रु॒न्धे॒ - प्रा॒णान् दी॒क्षामव॑रुन्ध - उच्यते - क्रामन्ति - तिष्ठति)
3.8.10.5
यो दी॒क्षाम॑ति-रे॒चय॑ति । स॒प्ता॒हं प्रच॑रन्ति । स॒प्त वै शी॑र्.ष॒ण्याः᳚ प्रा॒णाः । प्रा॒णा दी॒क्षा । प्रा॒णैरे॒व प्रा॒णान्दी॒क्षामव॑रुन्धे ॥ पू॒र्णा॒हु॒ति-मु॑त्त॒मां जु॑होति । सर्वं॒ ॅवै पू᳚र्णाहु॒तिः । सर्व॑मे॒वाप्नो॑ति । अथो॑ इ॒यं ॅवै पू᳚र्णाहु॒तिः । अ॒स्यामे॒व प्रति॑तिष्ठति ( ) ।
कोर्वै (Index)
(रु॒न्धे॒ - प्रा॒णान् दी॒क्षामव॑रुन्ध - उच्यते - क्रामन्ति - तिष्ठति)