TB 3.8.9

5 पञ्चाशत्

3.8.9 अनुवाकं 9 -अश्वस्य नाम्नामभिवाचनं, उथ्सर्गश्च

3.8.9.1
वि॒भूर्मा॒त्रा प्र॒भूः पि॒त्रेत्या॑ह । इ॒यं ॅवै मा॒ता । अ॒सौ पि॒ता । आ॒भ्यामे॒वैनं॒ परि॑ददाति ॥ अश्वो॑ऽसि॒ हयो॒ऽसीत्या॑ह । शास्त्ये॒वैन॑मे॒तत् । तस्मा᳚च्छि॒ष्टाः प्र॒जा जा॑यन्ते ॥ अत्यो॒ऽसीत्या॑ह । तस्मा॒दश्वः॒ सर्वा᳚न् प॒शूनत्ये॑ऽति । तस्मा॒दश्वः॒ सर्वे॑षां पशू॒नाꣳ श्रैष्ठ्यं॑ गच्छति ।
कोर्वै (Index)
(ग॒च्छ॒ति॒ - भ॒व॒तः॒ - प॒थ्सु जु॑होति॒ - न गच्छ॑न्ति॒ - +नव॑ च)
3.8.9.2
प्र यशः॒ श्रैष्ठ्य॑माप्नोति । य ए॒वं ॅवेद॑ ॥ नरो॒ऽस्यर्वा॑ऽसि॒ सप्ति॑रसि वा॒ज्य॑सीत्या॑ह । रू॒पमे॒वास्यै॒तन्म॑हि॒मानं॒ ॅव्याच॑ष्टे ॥ ययु॒र्नामा॒-ऽसीत्या॑ह । ए॒तद्वा अश्व॑स्य प्रि॒यं ना॑म॒धेय᳚म् । प्रि॒येणै॒वैनं॑ नाम॒धेये॑ना॒भिव॑दति । तस्मा॒दप्या॑मि॒त्रौ स॒गंत्य॑ । नाम्ना॒ चेद्ध्वये॑ते । मि॒त्रमे॒व भ॑वतः ।
कोर्वै (Index)
(ग॒च्छ॒ति॒ - भ॒व॒तः॒ - प॒थ्सु जु॑होति॒ - न गच्छ॑न्ति॒ - +नव॑ च)
3.8.9.3
आ॒दि॒त्यानां॒ पत्वा-ऽन्वि॒हीत्या॑ह । आ॒दि॒त्याने॒वैनं॑ गमयति ॥ अ॒ग्नये॒ स्वाहा॒ स्वाहे᳚न्द्रा॒ग्निभ्या॒मिति॑ पूर्वहो॒मा-ञ्जु॑होति । पूव॑ ए॒व द्वि॒षन्तं॒ भ्रातृ॑व्य॒-मति॑क्रामति ॥ भूर॑सि भु॒वे त्वा॒ भव्या॑य त्वा भविष्य॒ते त्वेत्युथ्सृ॑जति सर्व॒त्वाय॑ ॥ देवा॑ आशापाला ए॒तं दे॒वेभ्योऽश्वं॒ मेधा॑य॒ प्रोक्षि॑तं गोपाय॒तेत्या॑ह । श॒तं ॅवै तल्प्या॑ राजपु॒त्रा दे॒वा आ॑शापा॒लाः । तेभ्य॑ ए॒वैनं॒ परि॑ददाति ॥ ई॒श्व॒रो वा अश्वः॒ प्रमु॑क्तः॒ परां᳚ परा॒वतं॒ गन्तोः᳚ । इ॒ह धृतिः॒ स्वाहे॒ह विधृ॑तिः॒ स्वाहे॒ह रन्तिः॒ स्वाहे॒ह रम॑तिः॒ स्वाहेति॑ चतृ॒षु प॒थ्सु जु॑होति
कोर्वै (Index)
(ग॒च्छ॒ति॒ - भ॒व॒तः॒ - प॒थ्सु जु॑होति॒ - न गच्छ॑न्ति॒ - +नव॑ च)
3.8.9.4
ए॒ता वा अश्व॑स्य॒ बन्ध॑नम् । ताभि॑रे॒वैनं॑ बद्ध्नाति । तस्मा॒दश्वः॒ प्रमु॑क्तो॒ बन्ध॑न॒-माग॑च्छति । तस्मा॒दश्वः॒ प्रमु॑क्तो॒ बन्ध॑नं॒ न ज॑हाति ॥ रा॒ष्ट्रं ॅवा अ॑श्वमे॒धः । रा॒ष्ट्रे खलु॒ वा ए॒ते व्याय॑च्छन्ते । येऽश्वं॒ मेद्ध्यꣳ॒॒ रक्ष॑न्ति । तेषां॒ ॅय उ॒दृचं॒ गच्छ॑न्ति । रा॒ष्ट्रादे॒व ते रा॒ष्ट्रं ग॑च्छन्ति । अ॒थ य उ॒दृचं॒ न गच्छ॑न्ति ( )
कोर्वै (Index)
(ग॒च्छ॒ति॒ - भ॒व॒तः॒ - प॒थ्सु जु॑होति॒ - न गच्छ॑न्ति॒ - +नव॑ च)
3.8.9.5
रा॒ष्ट्रादे॒व ते व्यव॑च्छिद्यन्ते । परा॒ वा ए॒ष सि॑च्यते । यो॑-ऽब॒लो᳚-ऽश्वमे॒धेन॒ यज॑ते । यद॒मित्रा॒ अश्वं॑ ॅवि॒न्देरन्न्॑ । ह॒न्येता᳚स्य य॒ज्ञ्ः । च॒तु॒श्श॒ता र॑क्षन्ति । य॒ज्ञ्स्याघाताय ॥ अथा॒न्य-मा॒नीय॒ प्रोक्षे॑युः । सैव ततः॒ प्राय॑श्चित्तिः ।
कोर्वै (Index)
(ग॒च्छ॒ति॒ - भ॒व॒तः॒ - प॒थ्सु जु॑होति॒ - न गच्छ॑न्ति॒ - +नव॑ च)