ए॒क॒विꣳ॒॒शो᳚ऽग्निर्भ॑वति । ए॒क॒विꣳ॒॒शः स्तोमः॑ । एक॑विꣳशति॒र्यूपाः᳚ ॥ यथा॒ वा अश्वा॑ वर्.र्ष॒भा वा॒ वृषा॑णः सꣳस्फु॒रेरन्न्॑ । ए॒वमे॒तथ्स्तोमाः॒ सꣳस्फु॑रन्ते । यदे॑कविꣳ॒॒शाः । ते यथ्स॑मृ॒च्छेरन्न्॑ । ह॒न्येता᳚स्य य॒ज्ञ्ः ॥ द्वा॒द॒श ए॒वाग्निः स्या॒दित्या॑हुः । द्वा॒द॒शः स्तोमः॑
कोर्वै (Index)
(द्वा॒द॒शः स्तोमः॒-स- ए॒व तच् - छिरो॑ ह॒ राज्ञां᳚ भवति॒ षट्च॑)