प्रजाप॑ति-रश्वमे॒ध-म॑सृजत । तꣳ सृ॒ष्टं न किञ्च॒नोद॑यच्छत् । तं ॅवै᳚श्वदे॒वान्ये॒-वोद॑यच्छन्न् । यद्वै᳚श्वदे॒वानि॑ जु॒होति॑ । य॒ज्ञ्स्योद्य॑त्यै ॥ स्वाहा॒-ऽऽधिमाधी॑ताय॒ स्वाहा᳚ । स्वाहा-ऽऽधी॑तं॒ मन॑से॒ स्वाहा᳚ । स्वाहा॒ मनः॑ प्र॒जाप॑तये॒ स्वाहा᳚ । काय॒ स्वाहा॒ कस्मै॒ स्वाहा॑ कत॒मस्मै॒ स्वाहेति॑ प्राजाप॒त्ये मुख्ये॑ भवतः । प्र॒जाप॑ति-मुखाभिरे॒वैनं॑ दे॒वता॑भि॒रुद्य॑च्छते ।
कोर्वै (Index)
(य॒च्छ॒ते॒ - पु॒रु॒रूपा॑य॒ स्वाहेत्या॑हा॒ष्टौ च॑)