TB 3.8.7

3 पञ्चाशत्

3.8.7 अनुवाकं 7 -अथाध्वर्युप्रोक्षणम्

3.8.7.1
प्र॒जाप॑तये त्वा॒ जुष्टं॒ प्रोक्षा॒मीति॑ पुर॒स्ता᳚त्-प॒त्यङ्तिष्ठ॒न् प्रोक्ष॑ति । प्र॒जाप॑ति॒र्वै दे॒वाना॑-मन्ना॒दो वी॒र्या॑वान् । अ॒न्नाद्य॑-मे॒वास्मि॑न् वी॒र्यं॑ दधाति । तस्मा॒दश्वः॑ पशू॒ना-म॑न्ना॒दो वी॒र्या॑वत्तमः ॥ इ॒न्द्रा॒ग्निभ्यां॒ त्वेति॑ दक्षिण॒तः । इ॒न्द्रा॒ग्नी वै दे॒वाना॒मोजि॑ष्ठौ॒ बलि॑ष्ठौ । ओज॑ ए॒वास्मि॒न् बलं॑ दधाति । तस्मा॒दश्वः॑ पशू॒नामोजि॑ष्ठो॒ बलि॑ष्ठः ॥ वा॒यवे॒ त्वेति॑ प॒श्चात् । वा॒युर्वै दे॒वाना॑मा॒शुः सा॑रसा॒रित॑मः
कोर्वै (Index)
(सा॒र॒सा॒रित॒मो - ऽप॑चिततमः - प्राजाप॒त्योऽश्व॒ पञ्च॑ च)
3.8.7.2
ज॒वमे॒वास्मि॑न्दधाति । तस्मा॒दश्वः॑ पशू॒नामा॒शुः सा॑रसा॒रित॑मः ॥ विश्वे᳚भ्यस्त्वा दे॒वेभ्य॒ इत्यु॑त्तर॒तः । विश्वे॒ वै दे॒वा दे॒वानां᳚ ॅयश॒स्वित॑माः । यश॑ ए॒वास्मि॑न्दधाति । तस्मा॒दश्वः॑ पशू॒नां ॅय॑श॒स्वित॑मः ॥ दे॒वेभ्य॒-स्त्वेत्य॒धस्ता᳚त् । दे॒वा वै दे॒वाना॒-मप॑चिततमाः । अप॑चिति-मे॒वास्मि॑-न्दधाति । तस्मा॒दश्वः॑ पशू॒ना-मप॑चिततमः ।
कोर्वै (Index)
(सा॒र॒सा॒रित॒मो - ऽप॑चिततमः - प्राजाप॒त्योऽश्व॒ पञ्च॑ च)
3.8.7.3
सर्वे᳚भ्यस्त्वा दे॒वेभ्य॒ इत्यु॒परि॑ष्टात् । सर्वे॒ वै दे॒वास्त्विषि॑मन्तो हर॒स्विनः॑ । त्विषि॑मे॒-वास्मि॒न्॒. हरो॑ दधाति । तस्मा॒दश्वः॑ पशू॒नां त्विषि॑मान् हर॒स्वित॑मः ॥ दि॒वे त्वा॒ऽन्तरि॑क्षाय त्वा पृथि॒व्यै त्वेत्या॑ह । ए॒भ्य ए॒वैनं॑ ॅलो॒केभ्यः॒ प्रोक्ष॑ति ॥ स॒ते त्वाऽस॑ते त्वा॒-ऽद्भ्यस्त्वौ-ष॑धीभ्यस्त्वा॒ विश्वे᳚भ्यस्त्वा भू॒तेभ्य॒ इत्या॑ह । तस्मा॑दश्वमेधया॒जिनꣳ॒॒ सर्वा॑णि भू॒तान्युप॑ जीवन्ति ॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति । यत्प्रा॑जाप॒त्योऽश्वः॑ ( ) । अथ॒ कस्मा॑देन-म॒न्याभ्यो॑ दे॒वता॒भ्योऽपि॒ प्रोक्ष॒तीति॑ । अश्वे॒ वै सर्वा॑ दे॒वता॑ अ॒न्वाय॑त्ताः । तं ॅयद्विश्वे᳚भ्यस्त्वा भू॒तेभ्य॒ इति॑ प्रा॒क्षति॑ । दे॒वता॑ ए॒वास्मि॑न्-न॒न्वाया॑तयति । तस्मा॒दश्वे॒ सर्वा॑ दे॒वता॑ अ॒न्वाय॑त्ताः ।
कोर्वै (Index)
(सा॒र॒सा॒रित॒मो - ऽप॑चिततमः - प्राजाप॒त्योऽश्व॒ पञ्च॑ च)