TB 3.8.17

5 पञ्चाशत्

3.8.17 अनुवाकं 17 -सप्तमकाण्डगतान्नहोमानुवाका व्याख्यायन्ते

3.8.17.1
वि॒भूर्मा॒त्रा प्र॒भूः पि॒त्रेत्य॑श्व-ना॒मानि॑ जुहोति । उ॒भयो॑रे॒वैनं॑ ॅलो॒कयो᳚-र्नाम॒धेयं॑ गमयति ॥ आय॑नाय॒ स्वाहा॒ प्राय॑णाय॒ स्वाहेत्यु॑द्-द्रा॒वाञ्जु॑होति । सर्व॑मे॒वैन॒-मस्क॑न्नꣳ सुव॒र्गं ॅलो॒कं ग॑मयति ॥ अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहेति॑ पूर्वहा॒मा-ञ्जु॑होति । पूर्व॑ ए॒व द्वि॒षन्तं॒ भ्रातृ॑व्य॒-मति॑क्रामति ॥ पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहेत्या॑ह । य॒था॒ य॒जुरे॒वैतत् ॥ अ॒ग्नये॒ स्वाहा॒ सोमा॑य॒ स्वाहेति॑ पूर्वदी॒क्षा जु॑होति । पूर्व॑ ए॒व द्वि॒षन्तं॒ भ्रातृ॑व्य॒-मति॑क्रामति ।
कोर्वै (Index)
(पू॒र्व॒दी॒क्षा जु॑होति॒ पूर्व॑ ए॒व द्वि॒षन्त॒म् भ्रातृ॑व्य॒मति॑क्राम॒ - त्यन॑न्तरित्यै - क्रामति - रुन्धे॒ - जाय॑त॒ एकं॑ च)
3.8.17.2
पृ॒थि॒व्यै स्वाहा॒ऽन्तरि॑क्षाय॒ स्वाहेत्ये॑-कविꣳ॒॒शिनीं᳚ दी॒क्षां जु॑होति । एक॑विꣳशति॒र्वै दे॑वलो॒काः । द्वाद॑श॒ मासाः॒ पञ्च॒र्तवः॑ । त्रय॑ इ॒मे लो॒काः । अ॒सावा॑दि॒त्य ए॑कविꣳ॒॒शः । ए॒ष सु॑व॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ॥ भुवो॑ दे॒वानां॒ कर्म॒णेत्यृ॑तु-दी॒क्षा जु॑होति । ऋ॒तूने॒-वास्मै॑ कल्पयति ॥ अ॒ग्नये॒ स्वाहा॑ वा॒यवे॒ स्वाहेति॑ जुहो॒त्य-न॑न्तरित्यै ।
कोर्वै (Index)
(पू॒र्व॒दी॒क्षा जु॑होति॒ पूर्व॑ ए॒व द्वि॒षन्त॒म् भ्रातृ॑व्य॒मति॑क्राम॒ - त्यन॑न्तरित्यै - क्रामति - रुन्धे॒ - जाय॑त॒ एकं॑ च)
3.8.17.3
अ॒र्वाङ्य॒ज्ञ्ः संक्रा॑म॒त्वि-त्याप्ती᳚-र्जुहोति । सु॒व॒र्गस्य॑ लो॒कस्याप्त्यै᳚ ॥ भू॒तं भव्यं॑ भवि॒ष्यदिति॒ पर्या᳚प्ती-र्जुहोति । सु॒व॒र्गस्य॑ लो॒कस्य॒ पर्या᳚प्त्यै ॥ आ मे॑ गृ॒हा भ॑व॒न्त्वित्या॒भू-र्जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्या भू᳚त्यै ॥ अ॒ग्निना॒ तपो-ऽन्व॑भव॒दित्य॑नु॒भू-र्जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्यानु॑भूत्यै ॥ स्वाहा॒-ऽऽधिमाधी॑ताय॒ स्वाहेति॒ सम॑स्तानि वैश्वदे॒वानि॑ जुहोति । सम॑स्तमे॒व द्वि॒षन्तं॒ भ्रातृ॑व्य॒-मति॑क्रामति ।
कोर्वै (Index)
(पू॒र्व॒दी॒क्षा जु॑होति॒ पूर्व॑ ए॒व द्वि॒षन्त॒म् भ्रातृ॑व्य॒मति॑क्राम॒ - त्यन॑न्तरित्यै - क्रामति - रुन्धे॒ - जाय॑त॒ एकं॑ च)
3.8.17.4
द॒द्भ्यः स्वाहा॒ हनू᳚भ्याꣳ॒॒ स्वाहेत्य॑ङ्गहो॒मा-ञ्जु॑होति । अङ्गे॑ अङ्गे॒ वै पुरु॑षस्य पा॒प्मोप॑श्लिष्टः । अङ्गा॑दङ्गा दे॒वैनं॑ पा॒प्मन॒स्तेन॑ मुञ्चति ॥ अ॒ञ्ज्ये॒ताय॒ स्वाहा॑ कृ॒ष्णाय॒ स्वाहा᳚ श्वे॒ताय॒ स्वाहेत्य॑-श्वरू॒पाणि॑ जुहोति । रू॒पैरे॒वैनꣳ॒॒ सम॑द्र्धयति ॥ ओष॑धीभ्यः॒ स्वाहा॒ मूले᳚भ्यः॒ स्वाहेत्यो॑षधि हो॒माञ्जु॑होति । द्व॒य्यो वा ओष॑धयः । पुष्पे᳚भ्यो॒ऽन्याः फलं॑ गृ॒ह्णन्ति॑ । मूले᳚भ्यो॒ऽन्याः । ता ए॒वोभयी॒रव॑रुन्धे ।
कोर्वै (Index)
(पू॒र्व॒दी॒क्षा जु॑होति॒ पूर्व॑ ए॒व द्वि॒षन्त॒म् भ्रातृ॑व्य॒मति॑क्राम॒ - त्यन॑न्तरित्यै - क्रामति - रुन्धे॒ - जाय॑त॒ एकं॑ च)
3.8.17.5
वन॒स्पति॑भ्यः॒ स्वाहेति॑ वनस्पति-हो॒माञ्जु॑होति । आ॒र॒ण्यस्या॒न्नाद्य॒स्याव॑रुद्ध्यै ॥ मे॒षस्त्वा॑ पच॒तै-र॑व॒त्वित्य-पा᳚व्यानि जुहोति । प्रा॒णा वै दे॒वा अपा᳚व्याः । प्रा॒णाने॒वाव॑रुन्धे ॥ कूप्या᳚भ्यः॒ स्वाहा॒ऽद्भ्यः स्वाहेत्य॒पाꣳ होमा᳚ञ्जुहोति । अ॒फ्सु वा आपः॑ । अन्नं॒ ॅवा आपः॑ । अ॒द्भ्यो वा अन्नं॑ जायते । यदे॒वाद्भ्योऽन्नं॒ जाय॑ते ( ) । तदव॑रुन्धे ।
कोर्वै (Index)
(पू॒र्व॒दी॒क्षा जु॑होति॒ पूर्व॑ ए॒व द्वि॒षन्त॒म् भ्रातृ॑व्य॒मति॑क्राम॒ - त्यन॑न्तरित्यै - क्रामति - रुन्धे॒ - जाय॑त॒ एकं॑ च)