TB 3.8.3

6 पञ्चाशत्

3.8.3 अनुवाकं 3 -रशनयाऽश्वबन्धनम्

3.8.3.1
यो वै ब्रह्म॑णे दे॒वेभ्यः॑ प्र॒जाप॑त॒ये-ऽप्र॑ति-प्रो॒च्याश्वं॒ मेद्ध्यं॑ ब॒द्ध्नाति॑ । आ दे॒वता᳚भ्यो वृश्च्यते । पापी॑यान्भवति । यः प्र॑ति॒प्रोच्य॑ । न दे॒वता᳚भ्य॒ आवृ॑श्च्यते । वसी॑यान्भवति ॥ यदाह॑ । ब्रह्म॒न्नश्वं॒ मेद्ध्यं॑ भन्थ्स्यामि दे॒वेभ्यः॑ प्र॒जाप॑तये॒ तेन॑ राद्ध्यास॒मिति॑ । ब्रह्म॒ वै ब्र॒ह्मा । ब्रह्म॑ण ए॒व दे॒वेभ्यः॑ प्र॒जाप॑तये प्रति॒प्रोच्याश्वं॒ मेद्ध्यं॑ बद्ध्नाति
कोर्वै (Index)
(ब॒ध्ना॒ति॒ - समृ॑द्ध्या - उ॒पद॑धा - त्य॒सीत्या॑ह॒ - सप्र॑थस॒मीत्या॑ह - दे॒वेभ्य॒ इत्या॑ह॒ पञ्च॑ च)
3.8.3.2
न दे॒वता᳚भ्य॒ आवृ॑श्च्यते । वसी॑यान् भवति ॥ दे॒वस्य॑ त्वा सवि॒तुः प्र॑स॒व इति॑ रश॒ना-माद॑त्ते॒ प्रसू᳚त्यै । अ॒श्विनो᳚-र्बा॒हुभ्या॒-मित्या॑ह । अ॒श्विनौ॒ हि दे॒वाना॑-मद्ध्व॒र्यू आस्ता᳚म् । पू॒ष्णो हस्ता᳚भ्या॒-मित्या॑ह॒ यत्यै᳚ ॥ व्यृ॑द्धं॒ ॅवा ए॒तद्य॒ज्ञ्स्य॑ । यद॑य॒जुष्के॑ण क्रि॒यते᳚ । इ॒माम॑गृभ्णन्-रश॒ना-मृ॒तस्ये-त्यधि॑ वदति॒ यजु॑ष्कृत्यै । य॒ज्ञ्स्य॒ समृ॑द्ध्यै ।
कोर्वै (Index)
(ब॒ध्ना॒ति॒ - समृ॑द्ध्या - उ॒पद॑धा - त्य॒सीत्या॑ह॒ - सप्र॑थस॒मीत्या॑ह - दे॒वेभ्य॒ इत्या॑ह॒ पञ्च॑ च)
3.8.3.3
तदा॑हुः । द्वाद॑शारत्नी रश॒ना क॑र्त॒व्या(3) त्रयो॑दशार॒त्नी(3)रिति॑ । ऋ॒ष॒भो वा ए॒ष ऋ॑तू॒नाम् । यथ्स॑म्ॅवथ्स॒रः । तस्य॑ त्रयोद॒शो मासो॑ वि॒ष्टप᳚म् । ऋ॒ष॒भ ए॒ष य॒ज्ञाना᳚म् । यद॑श्वमे॒धः । यथा॒ वा ऋ॑ष॒भस्य॑ वि॒ष्टप᳚म् । ए॒वमे॒तस्य॑ वि॒ष्टप᳚म् । त्र॒यो॒द॒शम॑र॒त्निꣳ र॑श॒नाया॑-मु॒पाद॑धाति
कोर्वै (Index)
(ब॒ध्ना॒ति॒ - समृ॑द्ध्या - उ॒पद॑धा - त्य॒सीत्या॑ह॒ - सप्र॑थस॒मीत्या॑ह - दे॒वेभ्य॒ इत्या॑ह॒ पञ्च॑ च)
3.8.3.4
यथ॑र्.ष॒भस्य॑ वि॒ष्टपꣳ॑ सꣳस्क॒रोति॑ । ता॒दृगे॒व तत् ॥ पूर्व॒ आयु॑षि वि॒दथे॑षु क॒व्येत्या॑ह । आयु॑रे॒वास्मि॑न् दधाति ॥ तया॑ दे॒वाः सु॒तमाब॑भूवु॒-रित्या॑ह । भूति॑मे॒वोपाव॑र्तते ॥ ऋ॒तस्य॒ सामन᳚थ् स॒रमा॒रप॒न्तीत्या॑ह । स॒त्यं ॅवा ऋ॒तम् । स॒त्येनै॒वैन॑ मृ॒तेनार॑भते ॥ अ॒भि॒धा अ॒सीत्या॑ह
कोर्वै (Index)
(ब॒ध्ना॒ति॒ - समृ॑द्ध्या - उ॒पद॑धा - त्य॒सीत्या॑ह॒ - सप्र॑थस॒मीत्या॑ह - दे॒वेभ्य॒ इत्या॑ह॒ पञ्च॑ च)
3.8.3.5
तस्मा॑-दश्वमेधया॒जी सर्वा॑णि भू॒तान्य॒भि भ॑वति । भुव॑न-म॒सीत्या॑ह । भू॒मान॑-मे॒वोप॑ति । य॒न्ता-ऽसीत्या॑ह । य॒न्तार॑मे॒वैनं॑ करोति । ध॒र्ताऽसीत्या॑ह । ध॒र्तार॑मे॒वैनं॑ करोति । सो᳚ऽग्निं ॅवै᳚श्वान॒र-मित्या॑ह । अ॒ग्ना-वे॒वैनं॑ ॅवैश्वान॒रे जु॑होति । सप्र॑थस॒मित्या॑ह
कोर्वै (Index)
(ब॒ध्ना॒ति॒ - समृ॑द्ध्या - उ॒पद॑धा - त्य॒सीत्या॑ह॒ - सप्र॑थस॒मीत्या॑ह - दे॒वेभ्य॒ इत्या॑ह॒ पञ्च॑ च)
3.8.3.6
प्र॒जयै॒वैनं॑ प॒शुभिः॑ प्रथयति । स्वाहा॑कृत॒ इत्या॑ह । होम॑ ए॒वास्य॒षः । पृ॒थि॒व्या-मित्या॑ह । अ॒स्यामे॒वैनं॒ प्रति॑ष्ठापयति । य॒न्ता राड्य॒न्ताऽसि॒ यम॑नो ध॒र्ताऽसि॑ ध॒रुण॒ इत्या॑ह । रू॒पमे॒वास्यै॒-तन्म॑हि॒मानं॒ ॅव्याच॑ष्टे । कृ॒ष्यै त्वा॒ क्षेमा॑य त्वा र॒य्यै त्वा॒ पोषा॑य॒ त्वेत्या॑ह । आ॒शिष॑मे॒वैतामाशा᳚स्ते ॥स्व॒गा त्वा॑ दे॒वेभ्य॒ इत्या॑ह ( ) । दे॒वेभ्य॑ ए॒वैनꣳ॑ स्व॒गा क॑रोति । स्वाहा᳚ त्वा प्र॒जाप॑तय॒ इत्या॑ह । प्रा॒जा॒प॒त्यो वा अश्वः॑ । यस्या॑ ए॒व दे॒वता॑या आल॒भ्यत᳚ । तयै॒वैनꣳ॒॒ सम॑र्द्धयति ।
कोर्वै (Index)
(ब॒ध्ना॒ति॒ - समृ॑द्ध्या - उ॒पद॑धा - त्य॒सीत्या॑ह॒ - सप्र॑थस॒मीत्या॑ह - दे॒वेभ्य॒ इत्या॑ह॒ पञ्च॑ च)