TB 3.8.18

7 पञ्चाशत्

3.8.18 अनुवाकं 18 -सप्तमकाण्डगतान्नहोमानुवाका व्याख्यायन्ते

3.8.18.1
अम्भाꣳ॑सि जुहोति । अ॒यं ॅवै लो॒को-ऽम्भाꣳ॑सि । तस्य॒ वस॒वो-ऽधि॑पतयः । अ॒ग्निर्ज्योतिः॑ । यदम्भाꣳ॑सि जु॒होति॑ । इ॒ममे॒व लो॒कमव॑रुन्धे । वसू॑नाꣳ॒॒ सायु॑ज्यं गच्छति । अ॒ग्निं ज्योति॒रव॑रुन्धे ॥ नभाꣳ॑सि जुहोति । अ॒न्तरि॑क्षं ॅवै नभाꣳ॑सि
कोर्वै (Index)
(वै नभाꣳ॑सि॒ - सूर्यो॒ ज्योतिः॒ - सन्त॑त्यै॒ - सम॑ष्ट्यै - भु॒तम् - ॅयज॑ते॒ - +नव॑ च)
3.8.18.2
तस्य॑ रु॒द्रा अधि॑पतयः । वा॒युर्ज्योतिः॑ । यन्नभाꣳ॑सि जु॒होति॑ । अ॒न्तरि॑क्षमे॒वा-व॑रुन्धे । रु॒द्राणाꣳ॒॒ सायु॑ज्यं गच्छति । वा॒युं ज्योति॒रव॑रुन्धे । महाꣳ॑सि जुहोति । अ॒सौ वै लो॒को महाꣳ॑सि । तस्या॑दि॒त्या अधि॑पतयः। सूर्यो॒ ज्योतिः॑
कोर्वै (Index)
(वै नभाꣳ॑सि॒ - सूर्यो॒ ज्योतिः॒ - सन्त॑त्यै॒ - सम॑ष्ट्यै - भु॒तम् - ॅयज॑ते॒ - +नव॑ च)
3.8.18.3
यन्महाꣳ॑सि जु॒होति॑ । अ॒मुमे॒व लो॒कमव॑रुन्धे । आ॒दि॒त्यानाꣳ॒॒ सायु॑ज्यं गच्छति । सूर्यं॒ ज्योति॒रव॑रुन्धे ॥ नमो॒ राज्ञ्॒ नमो॒ वरु॑णा॒येति॑ य॒व्यानि॑ जुहोति । अ॒न्नाद्य॒स्याव॑रुद्ध्यै ॥ म॒यो॒भूर्वातो॑ अ॒भि वा॑तू॒स्रा इति॑ ग॒व्यानि॑ जुहोति । प॒शू॒नामव॑रुद्ध्यै ॥ प्रा॒णाय॒ स्वाहा᳚ व्या॒नाय॒ स्वाहेति॑ सन्तति-हो॒माञ्जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सन्त॑त्यै ।
कोर्वै (Index)
(वै नभाꣳ॑सि॒ - सूर्यो॒ ज्योतिः॒ - सन्त॑त्यै॒ - सम॑ष्ट्यै - भु॒तम् - ॅयज॑ते॒ - +नव॑ च)
3.8.18.4
सि॒ताय॒ स्वाहा-ऽसि॑ताय॒ स्वाहेति॒ प्रमु॑क्ती-र्जुहोति । सु॒व॒र्गस्य॑ लो॒कस्य॒ प्रमु॑क्त्यै ॥ पृ॒थि॒व्यै स्वाहा॒-ऽन्तरि॑क्षाय॒ स्वाहेत्या॑ह । य॒था॒ य॒जुरे॒वैतत् ॥ द॒त्त्वते॒ स्वाहा॑-ऽद॒न्तका॑य॒ स्वाहेति॑ शरीर-हो॒माञ्जु॑होति । पि॒तृ॒लो॒कमे॒व तैर्यज॑मा॒नो-ऽव॑रुन्धे ॥ कस्त्वा॑ युनक्ति॒ स त्वा॑ युन॒क्त्विति॑ परि॒धीन्. यु॑नक्ति । इ॒मे वै लो॒काः प॑रि॒धयः॑ । इ॒माने॒वास्मै॑ लो॒कान्. यु॑नक्ति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
कोर्वै (Index)
(वै नभाꣳ॑सि॒ - सूर्यो॒ ज्योतिः॒ - सन्त॑त्यै॒ - सम॑ष्ट्यै - भु॒तम् - ॅयज॑ते॒ - +नव॑ च)
3.8.18.5
यः प्रा॑ण॒तो य आ᳚त्म॒दा इति॑ महि॒मानौ॑ जुहोति । सु॒व॒र्गो वै लो॒को महः॑ । सु॒व॒र्गमे॒व ताभ्यां᳚ ॅलो॒कं ॅयज॑मा॒नोऽव॑रुन्धे ॥ आ ब्रह्म॑न् ब्राह्म॒णो ब्र॑ह्मवच॒र्सी जा॑यता॒मिति॒ सम॑स्तानि ब्रह्मवर्च॒सानि॑ जुहोति । ब्र॒ह्म॒व॒र्च॒समे॒व तैर्यज॑मा॒नो ऽव॑रुन्धे ॥ जज्ञि॒ बीज॒मिति॑ जुहो॒त्य-न॑न्तरित्यै ॥ अ॒ग्नये॒ सम॑नम-त्पृथि॒व्यै समन॑म॒दिति॑ सन्नति हो॒माञ्जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्य॒ संन॑त्यै ॥ भू॒ताय॒ स्वाहा॑ भविष्य॒ते स्वाहेति॑ भूताभ॒व्यौ होमौ॑ जुहोति । अ॒यं ॅवै लो॒को भू॒तम्
कोर्वै (Index)
(वै नभाꣳ॑सि॒ - सूर्यो॒ ज्योतिः॒ - सन्त॑त्यै॒ - सम॑ष्ट्यै - भु॒तम् - ॅयज॑ते॒ - +नव॑ च)
3.8.18.6
असौ भ॑वि॒ष्यत् । अ॒नयो॑रे॒व लो॒कयोः॒ प्रति॑तिष्ठति । सर्व॒स्याप्त्यै᳚ । सर्व॒स्याव॑रुद्ध्यै ॥ यदक्र॑न्दः प्रथ॒मं जाय॑मान॒ इत्य॑श्वस्तो॒मीयं॑ जुहोति । सर्व॒स्याप्त्यै᳚ । सर्व॑स्य॒ जित्यै᳚ ॥ सर्व॑मे॒व तेना᳚प्नोति । सर्वं॑ जयति । यो᳚ऽश्वमे॒धेन॒ यज॑ते ( )
कोर्वै (Index)
(वै नभाꣳ॑सि॒ - सूर्यो॒ ज्योतिः॒ - सन्त॑त्यै॒ - सम॑ष्ट्यै - भु॒तम् - ॅयज॑ते॒ - +नव॑ च)
3.8.18.7
य उ॑ चैनमे॒वं ॅवेद॑ ॥ य॒ज्ञ्ꣳ रक्षाꣳ॑स्य जिघाꣳसन्न् । स ए॒तान् प्र॒जाप॑ति-र्नक्तꣳ हो॒मान॑पश्यत् । तान॑जुहोत् । तैर्वै स य॒ज्ञाद्रक्षाꣳ॒॒स्यपा॑हन्न् । यन्न॑क्तꣳ हो॒माञ्जु॒होति॑ । य॒ज्ञादे॒व तैर्यज॑मानो॒ रक्षाꣳ॒॒स्यप॑हन्ति ॥ उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहेत्य॑न्त॒तो जु॑होति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सम॑ष्ट्यै ।
कोर्वै (Index)
(वै नभाꣳ॑सि॒ - सूर्यो॒ ज्योतिः॒ - सन्त॑त्यै॒ - सम॑ष्ट्यै - भु॒तम् - ॅयज॑ते॒ - +नव॑ च)