TB 3.8.16

4 पञ्चाशत्

3.8.16 अनुवाकं 16 -विवरणमेतयोः

3.8.16.1
प्र॒जाप॑तिं॒ ॅवा ए॒ष ई᳚फ्स॒तीत्या॑हुः । यो᳚ऽश्वमे॒धेन॒ यज॑त॒ इति॑ । अथो॑ आहुः । सर्वा॑णि भू॒तानीति॑ ॥ एक॑स्मै॒ स्वाहेत्या॑ह । प्र॒जाप॑ति॒र्वा एकः॑ । तमे॒वाप्नो॑ति ॥ एक॑स्मै॒ स्वाहा॒ द्वाभ्याꣳ॒॒ स्वाहेत्य॑भि-पू॒र्वमाहु॑ती-र्जुहोति । अ॒भि॒पू॒र्वमे॒व स॑व॒र्गं ॅलो॒कमे॑ति ॥ ए॒को॒त्त॒रं जु॑होति
कोर्वै (Index)
(ए॒को॒त्त॒रम् जु॑होति - प्र॒युता॑य॒ स्वाहेत्या॑ह - समु॒द्राय॒ स्वाहेत्या॒हाह॒र् - व्यु॑ष्टिः स॒प्त च॑)
3.8.16.2
ए॒क॒वदे॒व सु॑व॒र्गं ॅलो॒कमे॑ति ॥ सन्त॑तं जुहोति । सु॒व॒र्गस्य॑ लो॒कस्य॒ सन्त॑त्यै ॥ श॒ताय॒ स्वाहेत्या॑ह । श॒तायु॒र्वै पुरु॑षः श॒तवी᳚र्यः । आयु॑रे॒व वी॒र्य॑मव॑रुन्धे । स॒हस्रा॑य॒ स्वाहेत्या॑ह । आयु॒र्वै स॒हस्र᳚म् । आयु॑रे॒वा व॑रुन्धे ॥ अ॒युता॑य॒ स्वाहा॑ नि॒युता॑य॒ स्वाहा᳚ प्र॒युता॑य॒ स्वाहेत्या॑ह
कोर्वै (Index)
(ए॒को॒त्त॒रम् जु॑होति - प्र॒युता॑य॒ स्वाहेत्या॑ह - समु॒द्राय॒ स्वाहेत्या॒हाह॒र् - व्यु॑ष्टिः स॒प्त च॑)
3.8.16.3
त्रय॑ इ॒मे लो॒काः । इ॒माने॒व लो॒कानव॑रुन्धे ॥ अर्बु॑दाय॒ स्वाहेत्या॑ह । वाग्वा अर्बु॑दम् । वाच॑मे॒वा व॑रुन्धे ॥ न्य॑र्बुदाय॒ स्वाहेत्या॑ह । यो वै वा॒चो भू॒मा । तन्न्य॑र्बुदम् । वा॒च ए॒व भू॒मान॒मव॑रुन्धे ॥ स॒मु॒द्राय॒ स्वाहेत्या॑ह
कोर्वै (Index)
(ए॒को॒त्त॒रम् जु॑होति - प्र॒युता॑य॒ स्वाहेत्या॑ह - समु॒द्राय॒ स्वाहेत्या॒हाह॒र् - व्यु॑ष्टिः स॒प्त च॑)
3.8.16.4
स॒मु॒द्रमे॒वाप्नो॑ति । मद्ध्या॑य॒ स्वाहेत्या॑ह । मद्ध्य॑मे॒वाप्नो॑ति । अन्ता॑य॒ स्वाहेत्या॑ह । अन्त॑मे॒-वाप्नो॑ति । प॒रा॒द्र्धाय॒ स्वाहेत्या॑ह । प॒रा॒द्र्धमे॒वाप्नो॑ति ॥ उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहेत्या॑ह । रात्रि॒र्वा उ॒षाः । अह॒र्व्यु॑ष्टिः ( ) । अ॒हो॒रा॒त्रे ए॒वाव॑रुन्धे । अथो॑ अहोरा॒त्रयो॑रे॒व प्रति॑तिष्ठति ॥ ता यदु॒भयी॒र्दिवा॑ वा॒ नक्तं॑ ॅवा जुहु॒यात् । अ॒हो॒रा॒त्रे मो॑हयेत् । उ॒षसे॒ स्वाहा॒ व्यु॑ष्ट्यै॒ स्वाहो॑देष्य॒ते स्वाहो᳚द्य॒ते स्वाहेत्यनु॑दिते जुहोति । उदि॑ताय॒ स्वाहा॑ सुव॒र्गाय॒ स्वाहा॑ लो॒काय॒ स्वाहेत्युदि॑ते जुहोति । अ॒हो॒रा॒त्रयो॒-रव्य॑तिमोहाय ।
कोर्वै (Index)
(ए॒को॒त्त॒रम् जु॑होति - प्र॒युता॑य॒ स्वाहेत्या॑ह - समु॒द्राय॒ स्वाहेत्या॒हाह॒र् - व्यु॑ष्टिः स॒प्त च॑)