पुरु॑षो॒ वै य॒ज्ञ्ः । य॒ज्ञ्ः प्र॒जाप॑तिः । यदश्वे॑ प॒शून्नि॑यु॒ञ्जन्ति॑ । य॒ज्ञादे॒व तद्य॒ज्ञ्ं प्रयु॑ङ्क्ते ॥ अश्वं॑ तूप॒रं गो॑मृ॒गम् । तान॑ग्नि॒ष्ठ आल॑भते । से॒ना॒मु॒खमे॒व तथ्सꣳश्य॑ति । तस्मा᳚द् राजमु॒खं भी॒ष्मं भावु॑कम् ॥ आ॒ग्ने॒यं कृ॒ष्णग्री॑वं पु॒रस्ता᳚-ल्ल॒लाटे᳚ । पू॒र्वा॒ग्निमे॒व तं कु॑रुते
कोर्वै (Index)
(कु॒रु॒ते॒ - ध॒त्ते॒ - कु॒रु॒ते॒ पञ्च॑ च)