प्र॒जाप॑ति-र्दे॒वेभ्यो॑ य॒ज्ञान् व्यादि॑शत् । स आ॒त्म-न्न॑श्वमे॒धम॑धत्त । तं दे॒वा अ॑ब्रुवन्न् । ए॒ष वाव य॒ज्ञ्ः । यद॑श्वमे॒धः । अप्ये॒व नोऽत्रा॒स्त्विति॑ । तेभ्य॑ ए॒तान॑न्नहो॒मान् प्राय॑च्छत् । तान॑जुहोत् । तैर्वै स दे॒वान॑ प्रीणात् । यद॑न्न-हो॒माञ्जु॒होति॑
कोर्वै (Index)
(जु॒होति॒ - मधु॑ना जु॒होति॒ - पृथु॑कैर्जु॒होति॑ - क॒रम्बै᳚र्जु॒होति॒ - सक्तु॑भिर्जु॒होति॑ - प्रियङ्गुतण्डु॒लैर्जु॒होति॑ च॒त्वारि॑ च)