प्र॒जाप॑ति-रश्वमे॒धम॑सृजत । तꣳ सृ॒ष्टꣳ रक्षाꣳ॑स्य जिघाꣳसन्न् । स ए॒तान् प्र॒जाप॑तिर्नक्तꣳ हो॒मान॑-पश्यत् । तान॑ जुहोत् । तैर्वै स य॒ज्ञाद् रक्षाꣳ॒॒स्यपा॑हन्न् । यन्न॑क्तꣳ हो॒माञ्जु॒होति॑ । य॒ज्ञादे॒व तैर्यज॑मानो॒ रक्षाꣳ॒॒स्यप॑हन्ति ॥ आज्ये॑न जुहोति । वज्रो॒ वा आज्य᳚म् । वज्रे॑णै॒व य॒ज्ञाद् रक्षाꣳ॒॒स्यप॑हन्ति ।
कोर्वै (Index)
(ए॒व य॒ज्ञ्द् रक्षाꣳ॒॒स्यप॑हन् - त्यन्त॒तो जु॑होति - श॒ताय॒ स्वाहेत्या॑ह सप्त च॑)