राज्जु॑दाल-मग्नि॒ष्ठं मि॑नोति । भ्रू॒ण॒ह॒त्याया॒ अप॑हत्यै ॥ पौतु॑द्रवाव॒भितो॑ भवतः । पुण्य॑स्य ग॒न्धस्याव॑रुद्ध्यै । भ्रू॒ण॒ह॒त्या-मे॒वास्मा॑-दप॒हत्य॑ । पुण्ये॑न ग॒न्धेनो॑भ॒यतः॒ परि॑गृह्णाति ॥ षड्बै॒॒ल्॒.वा भ॑वन्ति । ब्र॒ह्म॒व॒र्च॒सस्या-व॑रुद्ध्यै ॥ षट्खा॑दि॒राः । तेज॒सो-ऽव॑रुद्ध्यै ।
कोर्वै (Index)
(तेज॒सोऽव॑रुद्धै - भव॒न् - त्यश्वो॑ - गोमृ॒ग - मि॑लु॒वर्द॑ श्च॒त्वारि॑ च)