TB 3.8.4

2 पञ्चाशत्

3.8.4 अनुवाकं 4 -अश्वस्य जलेऽवगाहनम्

3.8.4.1
यः पि॒तुर॑नु॒जायाः᳚ पु॒त्रः । स पु॒रस्ता᳚न्नयति । यो मा॒तुर॑नु॒जायाः᳚ पु॒त्रः । स प॒श्चान्न॑यति । विष्व॑ञ्चमे॒वास्मा᳚त्-पा॒प्मानं॒ ॅविवृ॑हतः ॥ यो अर्व॑न्तं॒ जिघाꣳ॑सति॒ तम॒भ्य॑मीति॒ वरु॑ण॒ इति॒ श्वानं॑ चतुर॒क्षं प्रसौ॑ति । प॒रो मर्तः॑ प॒रः श्वेति॒ शुन॑श्चतु-र॒क्षस्य॒ प्रह॑न्ति । श्वेव॒ वै पा॒प्मा भ्रातृ॑व्यः । पा॒प्मान॑-मे॒वास्य॒ भ्रातृ॑व्यꣳ हन्ति ॥ सै॒द्ध्र॒कं मुस॑लं भवति
कोर्वै (Index)
(भ॒व॒ति॒ - प्ला॒व॒य॒ति॒ - मि॒मी॒ते॒ पञ्च॑ च)
3.8.4.2
कर्म॑ कर्मै॒वास्मै॑ साधयति ॥ पौꣳ॒॒श्च॒ले॒यो ह॑न्ति । पुꣳ॒॒श्च॒ल्वां ॅवै दे॒वाः शुचं॒ न्य॑दधुः । शु॒चैवास्य॒ शुचꣳ॑ हन्ति ॥ पा॒प्मा वा ए॒तमी᳚फ्स॒-तीत्या॑हुः । यो᳚ऽश्वमे॒धेन॒ यज॑त॒ इति॑ । अश्व॑स्याधस्प॒दमुपा᳚स्यति । व॒ज्री वा अश्वः॑ प्राजाप॒त्यः । वज्रे॑णै॒व पा॒प्मानं॒ भ्रातृ॑व्य॒-मव॑क्रामति ॥ द॒क्षि॒णा-ऽप॑प्लावयति । 14(10) ट्.भ्.3.8.4.3 पा॒प्मान॑-मे॒वास्मा॒-च्छम॑ल॒-मप॑प्लावयति ॥ ऐ॒षी॒क उ॑दू॒हो भ॑वति । आयु॒र्वा इ॒षीकाः᳚ । आयु॑रे॒-वास्मि॑न् दधति । अ॒मृतं॒ ॅवा इ॒षीकाः᳚ । अ॒मृत॑मे॒-वास्मि॑न् दधति ॥ वे॒त॒स॒शा॒खोप॒संब॑द्धा भवति । अ॒फ्सु-यो॑नि॒र्वा अश्वः॑ । अ॒फ्सु॒जो वे॑त॒सः । स्वादे॒वैनं॒ ॅयोने॒र्निर्मि॑मीते ( ) ॥ पु॒रस्ता᳚त्-प्र॒त्यञ्च॑-म॒भ्युदू॑हति । पु॒रस्ता॑-दे॒वास्मि॑न् प्र॒तीच्य॒ मृतं॑ दधाति ॥ अ॒हं च॒ त्वं च॑ वृत्रह॒न्निति॑ ब्र॒ह्मा यज॑मानस्य॒ हस्तं॑ गृह्णाति । ब्र॒ह्म॒क्ष॒त्रे ए॒व संद॑धाति । अ॒भि क्रत्वे᳚न्द्र भू॒रध॒ ज्मन्नित्य॑-ध्व॒र्यु-र्यज॑मानं ॅवाचयत्य॒-भिजि॑त्यै ।
कोर्वै (Index)
(भ॒व॒ति॒ - प्ला॒व॒य॒ति॒ - मि॒मी॒ते॒ पञ्च॑ च)