TB 3.8.5

4 पञ्चाशत्

3.8.5 अनुवाकं 5 -अश्वस्य प्रोक्षणं महर्त्विजाम्

3.8.5.1
च॒त्वार॑ ऋ॒त्विजः॒ समु॑क्षन्ति । आ॒भ्य ए॒वैनं॑ चत॒सृभ्यो॑ दि॒ग्भ्यो॑-ऽभिसमी॑रयन्ति ॥ श॒तेन॑ राजपु॒त्रैः स॒हाद्ध्व॒र्युः । पु॒रस्ता᳚त्-प्र॒त्यङ्तिष्ठ॒न् प्रोक्ष॑ति । अ॒नेनाश्वे॑न॒ मेद्ध्ये॑ने॒ष्ट्वा । अ॒यꣳ राजा॑ वृ॒त्रं ॅव॑द्ध्या॒दिति॑ । रा॒ज्यं ॅवा अ॑द्ध्व॒र्युः । क्ष॒त्रꣳ रा॑जपु॒त्रः । रा॒ज्येनै॒-वास्मि॑न् क्ष॒त्रं द॑धाति ॥ श॒तेना॑-रा॒जभि॑रु॒ग्रैः स॒ह ब्र॒ह्मा
कोर्वै (Index)
(ब्र॒ह्मा - वि॒श - उ॑क्षति॒ - दिश॒ एकं॑ च)
3.8.5.2
द॒क्षि॒ण॒त उद॒ङ्तिष्ठ॒न् प्रोक्ष॑ति । अ॒नेनाश्वे॑न॒ मेद्ध्ये॑ने॒ष्ट्वा । अ॒यꣳ राजा᳚-ऽप्रतिधृ॒ष्यो᳚-ऽस्त्विति॑ । बलं॒ ॅवै ब्र॒ह्मा । बल॑मरा॒जोग्रः । बल॑नै॒-वास्मि॒न् बलं॑ दधाति ॥ श॒तेन॑ सूतग्राम॒णिभिः॑ स॒ह होता᳚ । प॒श्चात्-प्राङ्तिष्ठ॒न् प्रोक्ष॑ति । अ॒नेनाश्वे॑न॒ मेद्ध्ये॑ने॒ष्ट्वा । अ॒यꣳ राजा॒ऽस्यै वि॒शः
कोर्वै (Index)
(ब्र॒ह्मा - वि॒श - उ॑क्षति॒ - दिश॒ एकं॑ च)
3.8.5.3
ब॒हु॒ग्वै ब॑ह्व॒श्वायै॑ बह्वजावि॒कायै᳚ । ब॒हु॒व्री॒हि॒य॒वायै॑ बहुमाषति॒लायै᳚ । ब॒हु॒हि॒र॒ण्यायै॑ बहुह॒स्तिका॑यै । ब॒हु॒दा॒स॒पू॒रु॒षायै॑ रयि॒मत्यै॒ पुष्टि॑मत्यै । ब॒हु॒रा॒य॒स्पो॒षायै॒ राजा॒ऽस्त्विति॑ । भू॒मा वै होता᳚ । भू॒मा सू॑तग्राम॒ण्यः॑ । भू॒म्नैवास्मि॑न् भू॒मानं॑ दधाति ॥ श॒तेन॑ क्षत्त-संग्रही॒तृभिः॑ स॒होद्गा॒ता । उ॒त्त॒र॒तो द॑क्षि॒णा तिष्ठ॒न् प्रोक्ष॑ति
कोर्वै (Index)
(ब्र॒ह्मा - वि॒श - उ॑क्षति॒ - दिश॒ एकं॑ च)
3.8.5.4
अ॒नेनाश्वे॑न॒ मेद्ध्ये॑ ने॒ष्ट्वा । अ॒यꣳ राजा॒ सर्व॒मायु॑रे॒त्विति॑ । आयु॒र्वा उ॑द्गा॒ता । आयुः॑ क्षत्त-संग्रही॒तारः॑ । आयु॑षै॒-वास्मि॒न्नायु॑-र्दधाति ॥ श॒तꣳ श॑तं भवन्ति । श॒तायुः॒ पुरु॑षः श॒तेन्द्रि॑यः । आयु॑ष्ये॒वेन्द्रि॒ये प्रति॑तिष्ठति ॥ च॒तुः॒ श॒ता भ॑वन्ति । चत॑स्रो॒ दिशः॑ ( ) । दि॒क्ष्वे॑व प्रति॑तिष्ठति ।
कोर्वै (Index)
(ब्र॒ह्मा - वि॒श - उ॑क्षति॒ - दिश॒ एकं॑ च)