यथा॒ वै ह॒विषो॑ गृही॒तस्य॒ स्कन्द॑ति । ए॒वं ॅवा ए॒तदश्व॑स्य स्कन्दति । यन्नि॒क्तमना॑-लब्ध-मुथ्सृ॒जन्ति॑ । यथ्स्तोक्या॑ अ॒न्वाह॑ । स॒र्व॒हुत॑-मे॒वैनं॑ करो॒त्य-स्क॑न्दाय । अस्क॑न्नꣳ॒॒ हि तत् । यद्धु॒तस्य॒ स्कन्द॑ति ॥ स॒हस्र॒-मन्वा॑ह । स॒हस्र॑ संमितः सुव॒र्गो लो॒कः । सु॒व॒र्गस्य॑ लो॒कस्या॒-भिजि॑त्यै ।
कोर्वै (Index)
(अ॒भिजि॑त्यै - वैश्वान॒रः - स॑वि॒त्र ए॒वैन॑म् जुहोति - वा॒यव॑ ए॒वैन॑म् जुहोति - च्यवते॒ षट्च॑)