TB 3.8.13

3 पञ्चाशत्

3.8.13 अनुवाकं 13 -संवथ्सराद्र्ध्वमुख्यस्याग्रेरूपस्थानम्

3.8.13.1
आ ब्र॑ह्मन् ब्राह्म॒णो ब्र॑ह्मवर्च॒सी जा॑यता॒-मित्या॑ह । ब्रा॒ह्म॒ण ए॒व ब्र॑ह्मवर्च॒सं दधाति । तस्मा᳚त्पु॒रा ब्रा᳚ह्म॒णो ब्र॑ह्मवर्च॒स्य॑ जायत ॥ आऽस्मिन् रा॒ष्ट्रे रा॑ज॒न्य॑ इष॒व्यः॑ शूरो॑ महार॒थो जा॑यता॒-मित्या॑ह । रा॒ज॒न्य॑ ए॒व शौ॒र्यं म॑हि॒मानं॑ दधाति । तस्मा᳚त्पु॒रा रा॑ज॒न्य॑ इष॒व्यः॑ शूरो॑ महार॒थो॑-ऽजायत ॥ दोग्ध्री॑ धे॒नुरित्या॑ह । धे॒न्वामे॒व पयो॑ दधाति । तस्मा᳚त्पु॒रा दोग्ध्री॑ धे॒नुर॑जायत । वोढा॑ऽन॒ड्वा-नित्या॑ह
कोर्वै (Index)
(अ॒न॒ड्वानित्या॑ह - जायते - वर्.षति स॒प्त च॑)
3.8.13.2
अ॒न॒डुह्ये॒व वी॒र्यं॑ दधाति । तस्मा᳚त्पु॒रा वोढा॑ऽन॒ड्वान॑जायत । आ॒शुः सप्ति॒रित्या॑ह । अश्व॑ ए॒व ज॒वं द॑धाति । तस्मा᳚त्पु॒रा-ऽऽशुरश्वो॑-ऽजायत । पुर॑धिं॒र्योषेत्या॑ह । यो॒षित्ये॒व रू॒पं द॑धाति । तस्मा॒थ्स्त्री यु॑व॒तिः प्रि॒या भावु॑का ॥ जि॒ष्णू र॑थे॒ष्ठा इत्या॑ह । आ ह॒ वै तत्र॑ जि॒ष्णू र॑थे॒ष्ठा जा॑यते
कोर्वै (Index)
(अ॒न॒ड्वानित्या॑ह - जायते - वर्.षति स॒प्त च॑)
3.8.13.3
यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥ स॒भेयो॒ युवेत्या॑ह । यो वै पू᳚र्ववय॒सी । स स॒भेयो॒ युवा᳚ । तस्मा॒द्युवा॒ पुमा᳚न् प्रि॒यो भावु॑कः ॥ आऽस्य यज॑मानस्य वी॒रो जा॑यता॒-मित्या॑ह । आ ह॒ वै तत्र॒ यज॑मानस्य वी॒रो जा॑यते । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥ नि॒का॒मेनि॑कामे नः प॒र्जन्यो॑ वर्.ष॒त्वित्या॑ह । नि॒का॒मेनि॑कामे ह॒ वै तत्र॑ प॒र्जन्यो॑ वर्.षति ( ) । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ॥ फ॒लिन्यो॑ न॒ ओष॑धयः पच्यन्ता॒-मित्या॑ह । फ॒लिन्यो॑ ह॒ वै तत्रौष॑धयः पच्यन्ते । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते । यो॒ग॒क्षे॒मो नः॑ कल्पता॒-मित्या॑ह । कल्प॑ते ह॒ वै तत्र॑ प्र॒जाभ्यो॑ योगक्षे॒मः । यत्रै॒तेन॑ य॒ज्ञेन॒ यज॑न्ते ।
कोर्वै (Index)
(अ॒न॒ड्वानित्या॑ह - जायते - वर्.षति स॒प्त च॑)