TB 3.8.2

4 पञ्चाशत्

3.8.2 अनुवाकं 2 -ब्रह्मौदनाभिधानम्

3.8.2.1
चतु॑ष्टय्य॒ आपो॑ भवन्ति । चतु॑श्शफो॒ वा अश्वः॑ प्राजाप॒त्यः समृ॑द्ध्यै ॥ ता दि॒ग्भ्यः स॒माभृ॑ता भवन्ति । दि॒क्षु वा आपः॑ । अन्नं॒ ॅवा आपः॑ । अ॒द्भ्यो वा अन्नं॑ जायते । यदे॒वाद्भ्योऽन्नं॒ जाय॑ते । तदव॑रुन्धे ॥ तासु॑ ब्रह्मौद॒नं प॑चति । रेत॑ ए॒व तद्द॑धाति ।
कोर्वै (Index)
(द॒धा॒ति॒ - रु॒न्धे॒ - द॒र्भा - अ॑भव॒थ् षट्च॑)
3.8.2.2
चतु॑श्शरावो भवति । दि॒क्ष्वे॑व प्रति॑तिष्ठति ॥ उ॒भ॒यतो॑ रु॒क्मौ भ॑वतः । उ॒भ॒यत॑ ए॒वास्मि॒न्-रुचं॑ दधाति । उद्ध॑रति शृत॒त्वाय॑ । स॒र्पिष्वा᳚न् भवति मेद्ध्य॒त्वाय॑ । च॒त्वार॑ आर्.षे॒याः प्राश्न॑न्ति । दि॒शामे॒व ज्योति॑षि जुहोति । च॒त्वारि॒ हिर॑ण्यानि ददाति । दि॒शाम॒व ज्योतीꣳ॒॒ष्य व॑रुन्धे ।
कोर्वै (Index)
(द॒धा॒ति॒ - रु॒न्धे॒ - द॒र्भा - अ॑भव॒थ् षट्च॑)
3.8.2.3
यदाज्य॑-मु॒च्छिष्य॑ते । तस्मि॑न्-रश॒नां न्यु॑नत्ति । प्र॒जाप॑ति॒र्वा ओ॑द॒नः । रेत॒ आज्य᳚म् । यदाज्ये॑ रश॒नां न्यु॒नत्ति॑ । प्र॒जाप॑तिमे॒व रेत॑सा॒ सम॑र्द्धयति ॥ द॒र्भ॒मयी॑ रश॒ना भ॑वति । ब॒हु वा ए॒ष कु॑च॒रो॑-ऽमे॒द्ध्यमुप॑गच्छति । यदश्वः॑ । प॒वित्रं॒ ॅवै द॒र्भाः
कोर्वै (Index)
(द॒धा॒ति॒ - रु॒न्धे॒ - द॒र्भा - अ॑भव॒थ् षट्च॑)
3.8.2.4
यद्द॑र्भ॒मयी॑ रश॒ना भव॑ति । पु॒नात्ये॒वैन᳚म् । पू॒तमे॑नं॒ मेद्ध्य॒-माल॑भते ॥ अश्व॑स्य॒ वा आल॑ब्धस्य महि॒मोद॑-क्रामत् । स म॒हर्त्वि॑जः॒ प्रावि॑शत् । तन्म॒हर्त्वि॑जां महर्त्वि॒क्त्वम् । यन्म॒हर्त्वि॑जः प्रा॒श्नन्ति॑ । म॒हि॒मान॑-मे॒वास्मि॒न्-तद्द॑धति ॥ अश्व॑स्य॒ वा आल॑ब्धस्य॒ रेत॒ उद॑क्रामत् । तथ्सु॒वर्णꣳ॒॒ हिर॑ण्य-मभवत् ( ) । यथ्सु॒वर्णꣳ॒॒ हिर॑ण्यं॒ ददा॑ति । रेत॑ ए॒व तद्द॑धाति ॥ ओ॒द॒ने द॑दाति । रेतो॒ वा ओ॑द॒नः । रेतो॒ हिर॑ण्यम् । रेत॑सै॒वास्मि॒न् रेतो॑ दधाति ।
कोर्वै (Index)
(द॒धा॒ति॒ - रु॒न्धे॒ - द॒र्भा - अ॑भव॒थ् षट्च॑)