पञ्चशत् 1 #
वाजꣳ॒॒ हनू᳚भ्याम॒प आ॒स्ये॑नाऽऽ*दि॒त्या-ञ्छ्मश्रु॑भि-रुपया॒म-मध॑रे॒णोष्ठे॑न॒ सदुत्त॑रे॒णान्त॑रेणा-नूका॒शं प्र॑का॒शेन॒ बाह्यꣳ॑ स्तनयि॒त्नुं नि॑र्बा॒धेन॑ सूर्या॒ग्नी चक्षु॑र्भ्यां ॅवि॒द्युतौ॑ क॒नान॑काभ्याम॒शनिं॑ म॒स्तिष्के॑ण॒ बलं॑ म॒ज्जभिः॑ ॥
पदपाठः (Word-by-word)
वाज᳚म् । हनू᳚भ्या॒मिति॒ हनु॑ - भ्या॒म् । अ॒पः । आ॒स्ये॑न । आ॒दि॒त्यान् । श्मश्रु॑भि॒रिति॒ श्मश्रु॑ - भिः॒ । उ॒प॒या॒ममित्यु॑प - या॒मम् । अध॑रेण । ओष्ठे॑न । सत् । उत्त॑रे॒णेत्युत् - त॒रे॒ण॒ । अन्त॑रेण । अ॒नू॒का॒शमित्य॑नु - का॒शम् । प्र॒का॒शेनेति॑ प्र - का॒शेन॑ । बाह्य᳚म् । स्त॒न॒यि॒त्नुम् । नि॒र्बा॒धेनेति॑ निः-बा॒धेन॑ । सू॒र्या॒ग्नी इति॑ सूर्य-अ॒ग्नी । चक्षु॑र्भ्या॒मिति॒ चक्षुः॑ - भ्या॒म् । वि॒द्युता॒विति॑ वि - द्युतौ᳚ । क॒नान॑काभ्याम् । अ॒शनि᳚म् । म॒स्तिष्के॑ण । बल᳚म् । म॒ज्जभि॒रिति॑ म॒ज्ज - भिः॒ ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 वाजोऽन्नम् । हन्वादीनि प्रसिद्धानि । हनूभ्यामिति छान्दसं सांहितिकं दीर्घत्वम् । उपयामः पृथिवी । अधरेणोष्ठेन । गतम् । 'ओत्वोष्ठयोः' इति पररूपत्वम् । सत् द्यौः, सीदन्त्यस्यां पुण्यकृत इति । उत्तरेण ओष्ठेनेत्येव । अन्तरं ओष्ठयोर्मध्यम् । अनूकाशः द्यावापृथिव्योर्मध्यं, अनुक्रमेण काशन्ते भासन्ते अस्मिन् ज्योतींषि । 'इकः काशे' इति सांहितिकं दीर्घत्वम् । प्रकाशः आभ्यन्तरं प्रकाशस्थानम् । बाह्यं बहिर्भवं प्रकाशस्थानं दिगादिः । 'बहिषष्टिलोपो यञ्च' इति यञ् । स्तनयित्नुः प्रसिद्धः । निर्बाधः क्वनशब्दः । सूर्याग्नी चक्षुर्भ्याम् । गतम् । विद्युतौ वृष्टिरवृष्टिः । कनानके अक्षिस्थे कृष्णमण्डले । अशनिः प्रसिद्धः । मस्तिष्कः । शिरोमांसम् । बलं मज्जभिः ॥
इति पञ्चमे सप्तमे द्वादशोनुवाकः ॥