पञ्चशत् 1 #
आ॒न॒न्दं न॒न्दथु॑ना॒ कामं॑ प्रत्या॒साभ्यां᳚ भ॒यꣳ शि॑ती॒मभ्यां᳚ प्र॒शिषं॑ प्रशा॒साभ्याꣳ॑ सूर्याचन्द्र॒मसौ॒ वृक्या᳚भ्याꣳ श्यामशब॒लौ मत॑स्नाभ्यां॒ ॅव्यु॑ष्टिꣳ रू॒पेण॒ निम्रु॑क्ति॒मरू॑पेण ॥
पदपाठः (Word-by-word)
आ॒न॒न्दमित्या᳚ - न॒न्दम् । न॒न्दथु॑ना । काम᳚म् । प्र॒त्या॒साभ्या॒मिति॑ प्रति - आ॒साभ्या᳚म् । भ॒यम् । शि॒ती॒मभ्या॒मिति॑ शिती॒म - भ्या॒म् । प्र॒शिष॒मिति॑ प्र - शिष᳚म् । प्र॒शा॒साभ्या॒मिति॑ प्र - शा॒साभ्या᳚म् । सू॒र्या॒च॒न्द्र॒मसा॒विति॑ सूर्या - च॒न्द्र॒मसौ᳚ । वृक्या᳚भ्याम् । श्या॒म॒श॒ब॒लाविति॑ श्याम - श॒ब॒लौ । मत॑स्नाभ्याम् । व्यु॑ष्टि॒मिति॒ वि-उ॒ष्टि॒म् । रू॒पेण॑ । निम्रु॑क्ति॒मिति॒ नि-म्रु॒क्ति॒म् । अरू॑पेण ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 आनन्दः प्रसिद्धः । नन्दथुः प्रजननसुखम् । 'ट्वितोऽथुच्' । कामः प्रसिद्धः । प्रत्यासौ प्रास्यौ त्वचौ प्रत्यस्यते प्रक्षिप्यते याभ्यां प्रजननम् । असेः करणे धञ् । थाथादिनोत्तरपदान्तोदात्तत्वम् । भयं प्रसिद्धम् । शितीमभ्यां उदगेरशुक्लाभ्यां? स्थानाभ्याम् । द्रव्याभ्यामितीत्यन्ये । गुणेन गुणिनो लक्षणमिति इमनिच्, तस्य छान्दसं दीर्घत्वम् । प्रशिषं प्रशासकम् । शासः क्वौ उपधाया इत्वम् । प्रशासौ अक्षिगोळके प्रकर्षेण शात्यसभ्यां प्रमेयमिति पूर्ववत्प्रत्ययः स्वरश्च । सूर्याचन्द्रमसौ प्रसिद्धौ । वृक्याभ्यां स्वल्पाम्रफलसदृशाभ्यांमासांभ्याम् । श्यामशबलौ तमःप्रकाशौ मतस्नाभ्यां महासिराभ्याम् । व्युष्टिं प्रभातम् । 'तादौ च' इति गतेः प्रकृति- स्वरत्वम्, 'उदात्तस्वरितयोर्यणः' इतीकारस्स्वर्यते । रूपेण शुक्लादिरूपवता । मत्वर्थीयो लुप्यते । निम्रुक्तिरस्तमयः । स एव स्वरः । अरूपेण गन्धादिना ॥
इति पञ्चमे सप्तमे एकोनविंशोनुवाकः ॥