पञ्चशत् 1 #
अ॒ग्नेः प॑क्ष॒तिः सर॑स्वत्यै॒ निप॑क्षतिः॒ सोम॑स्य तृ॒तीया॒ऽपां च॑तु॒र्थ्योष॑धीनां पञ्च॒मी सं॑ॅवथ्स॒रस्य॑ ष॒ष्ठी म॒रुताꣳ॑ सप्त॒मी बृह॒स्पते॑रष्ट॒मी मि॒त्रस्य॑ नव॒मी वरु॑णस्य दश॒मीन्द्र॑स्यैकाद॒शी विश्वे॑षां दे॒वानां᳚ द्वाद॒शी द्यावा॑पृथि॒व्योः पा॒र्श्वं ॅय॒मस्य॑ पाटू॒रः ॥
पदपाठः (Word-by-word)
अ॒ग्नेः । प॒क्ष॒तिः । सर॑स्वत्यै । निप॑क्षति॒रिति॒ नि-प॒क्ष॒तिः॒ । सोम॑स्य । तृ॒तीया᳚ । अ॒पाम् । च॒तु॒र्थी । ओष॑धीनाम् । प॒ञ्च॒मी । सं॒ॅव॒थ्स॒रस्येति॑ सं - व॒थ्स॒रस्य॑ । ष॒ष्ठी । म॒रुता᳚म् । स॒प्त॒मी । बृह॒स्पतेः᳚ । अ॒ष्ट॒मी । मि॒त्रस्य॑ । न॒व॒मी । वरु॑णस्य । द॒श॒मी । इन्द्र॑स्य । ए॒का॒द॒शी । विश्वे॑षाम् । दे॒वाना᳚म् । द्वा॒द॒शी । द्यावा॑पृथि॒व्योरिति॒ द्यावा᳚-पृ॒थि॒व्योः । पा॒र्श्वम् । य॒मस्य॑ । पा॒टू॒रः ॥
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 अग्नेः पक्षतिः पक्षमूलं पक्षतिः पार्श्ववङ्क्रीणां प्रथमः पक्षतिः । सरस्वत्यै निपक्षतिः निकृष्टा पक्षतिः द्वितीया वङ्क्रीः । एवं तृतीयादयस्सोमादीनाम् । द्याव्यापृयिव्योः पार्श्वम् । 'पर्शोर्णस्वक्तव्यः' इति णसि 'सिति च' इति पदत्वादोर्गुणाभावः । पर्शवः पार्श्ववङ्क्रयः । 'देवताद्वन्द्वे च' इति द्यावापृथिवीशब्द आद्युदात्तः, 'नोत्तरपदे' इति प्रतिषेधे पृथिव्यादिपर्युदासात् 'उदात्तयणः' इति विभक्तेरुदात्तत्वम् । यमस्य पाटूरः सर्वपशुविधारणोस्थिविशेषः ॥
इति पञ्चमे सप्तमे एकविंशोनुवाकः ॥