अनुवाकः 3 TS 5.7.3

(A3)

(उपै॒ - तां - धारा॑यै॒ - षट्च॑त्वारिꣳशच्च)

अनुवाकः 3 - Complete Audio

TS 5.7.3 - स्वरानुगामी

0:00 0:00
PS1.1 इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्नस्तनू॒पा नः॑ प्रतिस्प॒शः
PS1.2 यो नः॑ पु॒रस्ता᳚द् दक्षिण॒तः
PS1.3 प॒श्चा-दु॑त्तर॒तो॑-ऽघा॒युर॑भि॒दास॑त्ये॒तꣳ सोऽश्मा॑नमृच्छतु
PS1.4 दे॒वा॒सु॒राः संॅय॑त्ता आस॒न् तेऽसु॑रा
PS1.5 दि॒ग्भ्य आऽबा॑धन्त॒ तान् दे॒वा
PS1.6 इष्वा॑ च॒ वज्रे॑ण॒ चापा॑नुदन्त॒
PS1.7 यद्-व॒ज्रिणी॑रुप॒दधा॒तीष्वा॑ चै॒व तद्-वज्रे॑ण च॒
PS1.8 यज॑मानो॒ भ्रातृ॑व्या॒नप॑ नुदते दि॒क्षूप॑
PS1.9 - [ ]
PS2.1 दधाति देवपु॒रा ए॒वैतास्त॑नू॒पानीः॒ पर्यू॑ह॒ते
PS2.2 ऽग्ना॑विष्णू स॒जोष॑से॒मा व॑र्द्धन्तु वा॒गिंरः॑
PS2.3 द्यु॒म्नैर्वाजे॑भि॒रा ग॑तं
PS2.4 ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ यन्न दे॒वता॑यै॒
PS2.5 जुह्व॒त्यथ॑ किं देव॒त्या॑ वसो॒र्द्धारेत्य॒ग्नि-र्वसु॒स्तस्यै॒षा
PS2.6 धारा॒ विष्णु॒-र्वसु॒स्तस्यै॒षा धारा᳚ ऽऽग्नावैष्ण॒व्यर्चा
PS2.7 वसो॒र्द्धारां᳚ जुहोति भाग॒धेये॑नै॒वैनौ॒ सम॑र्द्धय॒त्यथो॑
PS2.8 ए॒ता- [ ]
PS3.1 -मे॒वाहु॑तिमा॒यत॑नवतीं करोति॒ यत्का॑म एनां
PS3.2 जु॒होति॒ तदे॒वाव॑ रुन्धे रु॒द्रो
PS3.3 वा ए॒ष यद॒ग्निस्तस्यै॒ते त॒नुवौ॑
PS3.4 घो॒राऽन्या शि॒वाऽन्या यच्छ॑तरु॒द्रीयं॑ जु॒होति॒
PS3.5 यैवास्य॑ घो॒रा त॒नूस्तां तेन॑
PS3.6 शमयति॒ यद्-वसो॒र्द्धारां᳚ जु॒होति॒ यैवास्य॑
PS3.7 शि॒वा त॒नूस्तां तेन॑ प्रीणाति॒
PS3.8 यो वै वसो॒र्द्धारा॑यै -
PS3.9 [ ]
PS4.1 प्रति॒ष्ठां ॅवेद॒ प्रत्ये॒व ति॑ष्ठति॒
PS4.2 यदाज्य॑मु॒च्छिष्ये॑त॒ तस्मि॑न् ब्रह्मौद॒नं प॑चे॒त्
PS4.3 तं ब्रा᳚ह्म॒णाश्च॒त्वारः॒ प्राश्नी॑युरे॒ष वा
PS4.4 अ॒ग्निर्वै᳚श्वान॒रो यद्ब्रा᳚ह्म॒ण ए॒षा खलु॒
PS4.5 वा अ॒ग्नेः प्रि॒या त॒नूर्यद्-वै᳚श्वान॒रः
PS4.6 प्रि॒याया॑मे॒वैनां᳚ त॒नुवां॒ प्रति॑ ष्ठापयति॒
PS4.7 चत॑स्रो धे॒नूर्द॑द्या॒त् ताभि॑रे॒व यज॑मानो॒ऽमुष्मि॑न्
PS4.8 ॅलो॒के᳚ऽग्निं दु॑हे

Report Timing Issue

Report timing issue for this location?

पञ्चशत् 1 #
TS 5.7.3.1 TS 5.7.3.1
इन्द्र॑स्य॒ वज्रो॑ऽसि॒ वार्त्र॑घ्नस्तनू॒पा नः॑ प्रतिस्प॒शः । यो नः॑ पु॒रस्ता᳚द् दक्षिण॒तः प॒श्चा-दु॑त्तर॒तो॑-ऽघा॒युर॑भि॒दास॑त्ये॒तꣳ सोऽश्मा॑नमृच्छतु ॥ दे॒वा॒सु॒राः संॅय॑त्ता आस॒न् तेऽसु॑रा दि॒ग्भ्य आऽबा॑धन्त॒ तान् दे॒वा इष्वा॑ च॒ वज्रे॑ण॒ चापा॑नुदन्त॒ यद्-व॒ज्रिणी॑रुप॒दधा॒तीष्वा॑ चै॒व तद्-वज्रे॑ण च॒ यज॑मानो॒ भ्रातृ॑व्या॒नप॑ नुदते दि॒क्षूप॑ - [ ]
पदपाठः (Word-by-word)
इन्द्र॑स्य । वज्रः॑ । अ॒सि॒ । वार्त्र॑घ्न॒ इति॒ वार्त्र॑ - घ्नः॒ । त॒नू॒पा इति॑ तनू - पाः । नः॒ । प्र॒ति॒स्प॒श इति॑ प्रति - स्प॒शः ॥ यः । नः॒ । पु॒रस्ता᳚त् । द॒क्षि॒ण॒तः । प॒श्चात् । उ॒त्त॒र॒त इत्यु॑त् - त॒र॒तः । अ॒घा॒युरित्य॑घ - युः । अ॒भि॒दास॒तीत्य॑भि - दास॑ति । ए॒तम् । सः । अश्मा॑नम् । ऋ॒च्छ॒तु॒ ॥ दे॒वा॒सु॒रा इति॑ देव - अ॒सु॒राः । संॅय॑त्ता॒ इति॒ सं - य॒त्ताः॒ । आ॒स॒न्न् । ते । असु॑राः । दि॒ग्भ्य इति॑ दिक्-भ्यः । एति॑ । अ॒बा॒ध॒न्त॒ । तान् । दे॒वाः । इष्वा᳚ । च॒ । वज्रे॑ण । च॒ । अपेति॑ । अ॒नु॒द॒न्त॒ । यत् । व॒ज्रिणीः᳚ । उ॒प॒दधा॒तीत्यु॑प-दधा॑ति । इष्वा᳚ । च॒ । ए॒व । तत् । वज्रे॑ण । च॒ । यज॑मानः । भ्रातृ॑व्यान् । अपेति॑ । नु॒द॒ते॒ । दि॒क्षु । उपेति॑ ।
पदसंख्या: 50
भट्टभास्करभाष्यम् (Bhatta Bhaskara Commentary)
1 वज्रिणीरुपदधाति - इन्द्रस्य वज्रोसीति ॥ अयमेव मन्त्रः प्रतिदिशं पुरस्ताद्दक्षिणतः पश्चादुत्तरत इति । दिशिदिशि विशेषः 'यो नः पुरस्तादभिदासति' 'यो नो दक्षिणतोभिदासति' इत्यादि । तेनैताश्चतस्रः पथ्याः, 'तृतीयश्चेद्द्वादशाक्षरः पथ्या' इति हे इष्टके इन्द्रस्य वज्रोसि । व्याख्यातम् । सा त्वं नोस्माकं तनूपाश्शरीरस्य रक्षिता । पातेर्विच् । भवेति शेषः । यद्वा - असीति सम्बध्यते । इन्द्रस्य वज्रोसीति वृत्रहननसाधनं अस्माकं त्वं तनूपा इति प्रतिस्पशः बाधितॄणां बाधिता प्ररीपं बाधकः । स्पश बाधने, पचाद्यच् । वज्रापेक्षया पुछिङ्गत्वम् । यो नः पुरस्तात् पूर्वस्यां दिशि अघायुः अघं पापमिच्छन् । 'छन्दसि परेच्छायामपि' इति क्यच् । 'अश्वाघस्यात्' इत्यात्वम् । 'क्याच्छन्दसि' इत्युप्रत्ययः । अभिदासति - आभिमुख्येन उपक्षपयति । छान्दसमात्वम्, विकरणव्यत्ययश्च । यद्वा - ण्यन्ताल्लिटि 'छन्दस्युभयथा' इति शप आर्धधातुकत्वात् णिलोपः । स एतमस्माकं व्यापकं इष्टकात्मानं वा पाषाणमृच्छतु अनुप्रविशतु वा, पाषाणीभवत्विति यावत् ॥
2 अथ तत्रैव ब्राह्मणम् - देवासुरा इत्यादि ॥ आबाधन्त सर्वतो दिक्षु बाधितवन्तोसुराः । तानित्यादि । गतम् । यद्वज्रिणीरिति । 'इन्द्रस्य वज्रोसि' इत्येवमाद्या ॥
3 दिक्ष्वित्यादि ॥ देवानां पुरो नगराणि देवपुराः । 'ऋक्पूरब्धूः' इत्यकारस्समासान्तः, परवल्लिङ्गता । शरीररक्षार्था देवपुरा एव पर्यूहते सर्वासु दिक्षु प्रतिष्ठापयति यद्दिक्षु वज्रिणीरुपदधाति ॥
4 अथ वसोर्धाराहोमविशेषविधित्सया पुनरपि विधित्सन् तन्मन्त्राग्रगतामृचं स्तोतुं पुनः पठति - अग्नाविष्णू इति ॥ व्याख्यातेयं चतुर्थे । अग्नाविष्णू समानप्रीतिकौ युवां अस्मदीया गिरो वर्धयन्तु । युवामपि द्युम्नैः धनैः दीप्तिमद्भिर्वा अन्नैश्च अस्मभ्यं देयैस्समागच्छतमिति ॥
5 ब्रह्मवादिन इत्यादि ॥ इयं वसोर्धारा कस्यैचिद्देवतायै न हूयते । 'वाजश्च मे' इत्यादौ देवताया अनिर्देशादियं किंदेवत्येति पर्यनुयोगं वदन्ति ब्रह्मवादिनः । जुह्वतीत्यत्र 'अभ्यस्तानामादिः' इत्याद्युदात्तत्वम् । कस्यै देवतायै इयम् । 'देवतान्तात्तादर्थ्ये यत्' । तत्रोत्तरं - अग्निरित्यादि । वासहेतुः प्रजानां वसुः अग्निर्विष्णुश्च । तस्माद्वसोर्धारेतिनामधेया देवता गम्यत इति । तस्मादाग्नावैष्णव्या 'अग्नाविष्णू' इत्येतयर्चा होमात् ते एव देवते भागधेयेन प्रीणाति । अथो अपि च एतामाहुतिं आयतनवतीं करोति न परदेवतावतीमिति । अन्यथा 'च मे च मे' इति निगद्य हूयमानेयं कुत्र तिष्ठेत् । तस्मात् यत्कामः यज्जातिकं कामयमान एनां जुहोति देवतालाभात् स्थानलाभात् । 'शीलिकामि' इत्यादिना णः, पूर्वपदप्रकृतिस्वरत्वं च ॥
6 रुद्रो वा इत्यादि ॥ घोरां क्रुद्धां देवस्य तनुं शतरुद्रीयेण 'नमस्ते रुद्र मन्यवे' इत्येतेन शमयति शिवां प्रागेव शान्तां तनुं वसोर्धारया प्रीणयतीति । यो वा इत्यादि । गतम् ॥
7 उच्छिष्येत अतिरिच्येत ब्राह्मणेभ्यो देयमोदनं ब्रह्मौदनम् । प्रियायामेवेति । अग्नेः प्रियशरीरभूते वैश्वानरात्मनि ब्राह्मण इत्यर्थः । तत्रेयमाहुतिः प्रतिष्ठाप्यते यत् ब्राह्मणा ब्रह्मौदनं प्राश्नन्ति इयं वै वसोर्धारा प्रतिष्ठेति ॥
8 चतस्र इति ॥ भुक्तवद्भ्यो ब्राह्मणेभ्यः । ताभिरेवेति । ताभिः धेनुभिः वत्सस्थानीयाभिः अमुष्मिन् लोके भोगस्थाने अग्निं दुहे गोस्थानीयं दुग्धे कामान् दुहे । 'लोपस्त आत्मनेपदेषु' इति तलोपः ॥
इति पञ्चमे सप्तमे तृतीयोनुवाकः ॥
पञ्चशत् 2 #
TS 5.7.3.2 TS 5.7.3.2
दधाति देवपु॒रा ए॒वैतास्त॑नू॒पानीः॒ पर्यू॑ह॒ते ऽग्ना॑विष्णू स॒जोष॑से॒मा व॑र्द्धन्तु वा॒गिंरः॑ । द्यु॒म्नैर्वाजे॑भि॒रा ग॑तं ॥ ब्र॒ह्म॒वा॒दिनो॑ वदन्ति॒ यन्न दे॒वता॑यै॒ जुह्व॒त्यथ॑ किं देव॒त्या॑ वसो॒र्द्धारेत्य॒ग्नि-र्वसु॒स्तस्यै॒षा धारा॒ विष्णु॒-र्वसु॒स्तस्यै॒षा धारा᳚ ऽऽग्नावैष्ण॒व्यर्चा वसो॒र्द्धारां᳚ जुहोति भाग॒धेये॑नै॒वैनौ॒ सम॑र्द्धय॒त्यथो॑ ए॒ता- [ ]
पदपाठः (Word-by-word)
द॒धा॒ति॒ । दे॒व॒पु॒रा इति॑ देव - पु॒राः । ए॒व । ए॒ताः । त॒नू॒पानी॒रिति॑ तनू - पानीः᳚ । परीति॑ । ऊ॒ह॒ते॒ । अग्ना॑विष्णू॒ इत्यग्ना᳚ - वि॒ष्णू॒ । स॒जोष॒सेति॑ स - जोष॑सा । इ॒माः । व॒द्‌र्ध॒न्तु॒ । वा॒म् । गिरः॑ ॥ द्यु॒म्नैः । वाजे॑भिः । एति॑ । ग॒त॒म् ॥ ब्र॒ह्म॒वा॒दिन॒ इति॑ ब्रह्म - वा॒दिनः॑ । व॒द॒न्ति॒ । यत् । न । दे॒वता॑यै । जुह्व॑ति । अथ॑ । कि॒दें॒व॒त्येति॑ किं - दे॒व॒त्या᳚ । वसोः᳚ । धारा᳚ । इति॑ । अ॒ग्निः । वसुः॑ । तस्य॑ । ए॒षा । धारा᳚ । विष्णुः॑ । वसुः॑ । तस्य॑ । ए॒षा । धारा᳚ । आ॒ग्ना॒वै॒ष्ण॒व्येत्या᳚ग्ना - वै॒ष्ण॒व्या । ऋ॒चा । वसोः᳚ । धारा᳚म् । जु॒हो॒ति॒ । भा॒ग॒धेये॒नेति॑ भाग - धेये॑न । ए॒व । ए॒नौ॒ । समिति॑ । अ॒द्‌र्ध॒य॒ति॒ । अथो॒ इति॑ । ए॒ताम् ।
पदसंख्या: 50
पञ्चशत् 3 #
TS 5.7.3.3 TS 5.7.3.3
-मे॒वाहु॑तिमा॒यत॑नवतीं करोति॒ यत्का॑म एनां जु॒होति॒ तदे॒वाव॑ रुन्धे रु॒द्रो वा ए॒ष यद॒ग्निस्तस्यै॒ते त॒नुवौ॑ घो॒राऽन्या शि॒वाऽन्या यच्छ॑तरु॒द्रीयं॑ जु॒होति॒ यैवास्य॑ घो॒रा त॒नूस्तां तेन॑ शमयति॒ यद्-वसो॒र्द्धारां᳚ जु॒होति॒ यैवास्य॑ शि॒वा त॒नूस्तां तेन॑ प्रीणाति॒ यो वै वसो॒र्द्धारा॑यै - [ ]
पदपाठः (Word-by-word)
ए॒व । आहु॑ति॒मित्या - हु॒ति॒म् । आ॒यत॑नवती॒मित्या॒यत॑न - व॒ती॒म् । क॒रो॒ति॒ । यत्का॑म॒ इति॒ यत् - का॒मः॒ । ए॒ना॒म् । जु॒होति॑ । तत् । ए॒व । अवेति॑ । रु॒न्धे॒ । रु॒द्रः । वै । ए॒षः । यत् । अ॒ग्निः । तस्य॑ । ए॒ते इति॑ । त॒नुवौ᳚ । घो॒रा । अ॒न्या । शि॒वा । अ॒न्या । यत् । श॒त॒रु॒द्रीय॒मिति॑ शत-रु॒द्रीय᳚म् । जु॒होति॑ । या । ए॒व । अ॒स्य॒ । घो॒रा । त॒नूः । ताम् । तेन॑ । श॒म॒य॒ति॒ । यत् । वसोः᳚ । धारा᳚म् । जु॒होति॑ । या । ए॒व । अ॒स्य॒ । शि॒वा । त॒नूः । ताम् । तेन॑ । प्री॒णा॒ति॒ । यः । वै । वसोः᳚ । धारा॑यै ।
पदसंख्या: 50
पञ्चशत् 4 #
TS 5.7.3.4 TS 5.7.3.4
प्रति॒ष्ठां ॅवेद॒ प्रत्ये॒व ति॑ष्ठति॒ यदाज्य॑मु॒च्छिष्ये॑त॒ तस्मि॑न् ब्रह्मौद॒नं प॑चे॒त् तं ब्रा᳚ह्म॒णाश्च॒त्वारः॒ प्राश्नी॑युरे॒ष वा अ॒ग्निर्वै᳚श्वान॒रो यद्ब्रा᳚ह्म॒ण ए॒षा खलु॒ वा अ॒ग्नेः प्रि॒या त॒नूर्यद्-वै᳚श्वान॒रः प्रि॒याया॑मे॒वैनां᳚ त॒नुवां॒ प्रति॑ ष्ठापयति॒ चत॑स्रो धे॒नूर्द॑द्या॒त् ताभि॑रे॒व यज॑मानो॒ऽमुष्मि॑न् ॅलो॒के᳚ऽग्निं दु॑हे ॥
पदपाठः (Word-by-word)
प्र॒ति॒ष्ठामिति॑ प्रति - स्थाम् । वेद॑ । प्रतीति॑ । ए॒व । ति॒ष्ठ॒ति॒ । यत् । आज्य᳚म् । उ॒च्छिष्ये॒तेत्यु॑त् - शिष्ये॑त । तस्मिन्न्॑ । ब्र॒ह्मौ॒द॒नमिति॑ ब्रह्म - ओ॒द॒नम् । प॒चे॒त् । तम् । ब्रा॒ह्म॒णाः । च॒त्वारः॑ । प्रेति॑ । अ॒श्नी॒युः॒ । ए॒षः । वै । अ॒ग्निः । वै॒श्वा॒न॒रः । यत् । ब्रा॒ह्म॒णः । ए॒षा । खलु॑ । वै । अ॒ग्नेः । प्रि॒या । त॒नूः । यत् । वै॒श्वा॒न॒रः । प्रि॒याया᳚म् । ए॒व । ए॒ना॒म् । त॒नुवा᳚म् । प्रतीति॑ । स्था॒प॒य॒ति॒ । चत॑स्रः । धे॒नूः । द॒द्या॒त् । ताभिः॑ । ए॒व । यज॑मानः । अ॒मुष्मिन्न्॑ । लो॒के । अ॒ग्निम् । दु॒हे॒ ॥
पदसंख्या: 46